SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ पौषधपत्रिशिका खरतर जयसोमीया ॥२९॥ परीक्षका गौर्जरावनावासन् । प्रवचनपरीक्षकायाः, रीहडवंश्या अपि प्रकटाः।२तेषां राज्ये विजयिनि, रेजुः श्रीक्षेमराजराजानां । शिष्याः सुलब्धलक्षाः, प्रमोदमाणिक्यगणिमुख्याः।३। तत्पदपङ्कजभृङ्गः, सद्गुरुरागादवाप्तसुखसङ्गः। समवसितसमयभावः, शिष्यो जयसोमगणिनामा ।४। स्वोपज्ञस्य विवरणं, कृतवानिह पौषधप्रकरणस्य । भूता-ब्धि-रसे-न्दु(१६४५)मिते, वर्षे श्रीनेमीजन्मदिने ।। युग्मम् । वितथं यदत्र कथमपि, कथितं जिननाथशपथदानेन । अभ्यर्थये विपश्चि-द्वर्गः तच्छोधयतु इति ।६। श्रीमज्जिनदत्तानां, श्रीमज्जिनकुशलसूरिराजानां। कृपयैतच्चिरकालं, नन्द्यादानन्दसुखदायि ।। इति श्रीपौषधषट्त्रिंशिकाप्रकरणविवरणं समाप्तम् । संवति १६५५ प्रमिते श्रीस्तम्भतीर्थवेलाकूले कार्तिकसुदित्रयोदशीवासरे बुधवारभासुरे रङ्गदैराग्यभङ्गीवासनासमादृतकठोरतरसाधुक्रियासमाचार-कृतकुवादितिरस्कार-श्रीसाहिसमक्षं दूरीकृतकुमतिकृतोत्सूत्रासभ्यवचनमयप्रवचनपरीक्षादिशास्त्रव्याख्यान विचार-विशिष्टस्वेष्टमन्त्रादिप्रभावप्रसाधितपञ्चनद पतिसोमराजादियक्षपरिवार-अधरितामधुमाधुर्यवर्यवाक्चातुर्यरतिनिखिलभुजालभूपालमौलिमौलिमाणिक्यप्रभापटलकश्मीरजजलधौतचरणकमल-जलालदीश्रीअकबरपातिसाहिवितीर्णाषाढीयाष्टाहिकाऽमारि-वर्षावधिश्रीस्तम्भतीर्थीयजलव्यन्तर्ति - जलचरजीवतंतिम(?)रक्षणसमुद्भुतप्रभूतयशःसम्भार-श्रीसाहिप्रदत्तयुगप्रधानविरुदधार-जाग्रद्भाग्यसौभाग्यपागभार-शासनाधीश्वरश्रीमत्श्रीवर्द्धमानजिनपट्टप्रतिष्ठितपञ्चमगणधरश्रीसुधर्मस्वामिप्रमुखयुगप्रधानाचार्याविच्छिन्नपरंपरायातश्रीचन्द्रकुले चन्द्रश्रीउद्योतनमूरि-श्रीवर्द्धमानसरि-श्रीजिनेश्वरसरि-श्रीजिनचन्द्रमूरि-श्रीअभयदेवमूरि-श्रीजिनवल्लभमूरि-श्रीजिनदत्तमूरिसन्तानीयश्रीबृहत्खरतरगणशृङ्गारमौक्तिकहारश्रीजिनमाणिक्यसूरिपट्टोदयाचलप्रभाकर-विजयमानयुगप्रधान-श्रीजिनचन्द्रसूरिपुरन्दराणां आचार्यश्री जिनसिंहमूरि-श्रीसमयराजोपाध्याय-श्रीरत्ननिधानोपाध्याय-पं० पुण्यप्रधानादिशिष्ययुतानां सदुप(देशेन xx। एतावदेव प्राचीन प्रत्यन्तरे लेखकादीनां प्रशस्तिरस्ति)
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy