________________
कार्यमिति युक्तं, परं सर्वदेति साध्यांशो न युक्तः इत्यर्थः, तत्रैव व्यभिचारमाह-'स्वाध्यायादिषु' सिद्धान्ताध्ययनाध्यापनादिरूपेषु 'वेलावयआदीनि' वेला च वयश्च वेलावयसी, ते आदिर्येषां क्षेत्रादीनां ते वेलावयादयस्ते तथा, 'गीयन्ते' पोच्यन्ते गणधरैरित्यध्याहारः, तथाच साध्यात्यन्ताभाववद्गामित्वेन व्यभिचारस्यात्रापि समावेशः, तथाहि-यत्र सर्वदा करणीयरूपसाध्यात्यन्ताभाववत्वं वर्तते स्वाध्यायादौ तत्रापि निरवद्यत्वरूपसाधनस्य सत्वात् , तथा पक्षादित्रयवत्तित्वेनास्य हेतोरनेकान्तिकत्वं, नन्वध्ययनाध्यापनादीनामपि सर्वदा कार्यत्वेनोक्तदोषानवकाश इति चेन्न, सिद्धान्ते सूत्राध्ययनाध्यापनादौ कालव्यक्ताव्यक्तमाप्ताप्राप्तपरिणतापरिणतातिपरिणतादिविशेषाणां व्युत्पादनात, | तथाहि “नो कप्पइ निग्गंथाण वा निग्गंथीण वा चउहि महापाडिवएहिं सज्झायं करेत्तए, त• आसाढपडिवाते. इंदमहपडिवाते. कत्तियपडिवाते. मुगिम्हपडिवाते" तथा "नो कप्पइ निग्गंथाण वा निग्गंथीण वा चरहिं संज्झाहिं सज्झायं करित्तए, तं० पढमाते पच्छिमाते मज्झण्णे अट्टरत्ते” (स्थानाङ्गे २१३ पत्रे) तथा “दसविधे अंतलिखिते असज्झाइए पन्नते, तं० उक्कावाते दिसादाहे गज्जिते विज्जुते निग्याते जूयते जख्खालित्ते धृमिता महिता रतउग्याते । दसविधे ओरालिए असज्झातिते पन्नत्ते, तं. अट्ठीमंसे सोणिते, असुतिसामंते सुसाणसामंते । चंदोवराते सूरो-वराते पडणे य रायवुग्गहे ।। उवस्सयस्स अंतो उरालिते सरीरंगे पंचिंदियाण जीवाणं असमारंभमाणस्स" इत्यादि श्रीस्थानाङ्गे (४७५ पत्रे), तथा “जे भिख्खु अवत्तं वाएज्जा वाएंतं वा सातिज्जति” (निशीथ १९ उद्देशके १९) सूत्र "अवजण गाहा, जाव कख्खादिसु | रोमसंभवो ण भवति ताव अव्वत्तो, तस्संभवे वत्तो, अहवा जाव सोलसवरिसो ताव अव्वत्तो परतो वत्तो, जइ अवत्तं वाएति 'इयर'ति वत्तं
नवाएति ता (तस्स) आणादिया दोसा चउलहुयं(च)पच्छित्तं x x 'जे भिख्खु अप्पत्तं वाएति.' अप्राप्तं एयस्स अत्थो अपात्रसूत्रे गत एव, | आदी य अदिखे भावे त्ति, तहावि इह अमुन्नत्थं भष्णति-अहत्तसुत्तम्स अपत्तमुत्तेण य चउभंगो भाणियबो, परियाय० गाहा-परियाओ