SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ (द्वितीयविभागे ९३ पत्रे) यत्पतिपदादिष्वनियतत्वं पोषधस्योक्तं तत्र यदि कर्तुः शक्तिः स्यात् तदा तद्वतं कार्यमितरथा अष्टम्यादिष्विव नियत नेति शक्तिः कारणं न वाच्य, तथा आदि शब्दद्योतितं न तासु तदकरणे अष्टम्यादितिथिष्विव प्रायश्चित्तमित्यादिरूपमपि तदनियतत्वे निमित्तं न वक्तव्यं, इति गाथार्थः ।२७। अथ बीजदयाङ्गीकारे दोपमाह अनिययतिहिगणणाए, गणियत्तणउ न होज नियतत्तं। पोसहवयस्स वच्छरि-पव्वे ति विरुद्धमुभयत्थ(वि)।२८) ____ व्याख्या-'उभयत्रापि' प्रतिपदादितिथिषु पौषधानियमखनिबन्धनबीजद्वयेऽपि समनन्तरगाथोक्ते 'इति विरुद्धं' भावप्रधाननिर्देशा| विरुद्धत्वं-दोषदुष्टता ज्ञेयमित्युपस्कारः, इतीति किं ?. पौषव्रतस्य 'वत्सरपर्वणि' लोकोत्तरज्येष्ठपर्वणि आचरणया भाद्रपदविशदचतुर्थीरूपे 'नियतत्वं' तत्करणनैयत्यं न भवेत्सावधारणत्वाद्वाक्यस्य न भवेदेव, कोऽर्थः ? यदि शक्तिः स्यात्तदा तत्र पौषधः कार्यः, शक्त्यसत्त्वे | तु न कार्य इत्येवं विधिना सत्याश्चाशक्तौ तत्र तदकरणेऽपि प्रायश्चित्ताभावाद्वा तदनियतत्वं भवेदिति भावः, तत्र हेतुमाह-'अनियततिथिगणनायां' अनियताः-पौषधग्रहणेऽनियन्त्रिताः यास्तिथयोऽष्टमीचतुर्दशीपञ्चदशीव्यतिरिक्ताः प्रतिपदादिकर्मवाह्यास्तासां या गणनासंख्या तस्यां 'गणितत्वात्' अनियततिथिगणनामध्यपतितत्वात् , तथाचात्र प्रयोगः-भाद्रपदविशदचतुर्थीपौषधग्रहणे भाज्या, तदनियततिथिमध्यगणितत्वात् , या तदनियततिथिमध्यगणिता सा पौषधव्रते भाज्या, यथा तृतीया, या नैवं सा नैवं, यथा चतुदर्शीति, | नचैवं दृष्टमिष्टं वा शिष्टः, तस्यां नियमत एव श्रावकैः पौषधस्य क्रियमाणतयोपलम्भाव, सा यतिततिविततसुविहितस्वच्छगच्छवासि गीतार्थज नसम्मतत्वात् , तत्राष्टमाकरणे प्रायश्चित्तसद्भावाच, तदर्थना तु "पोसहउववासो उण, अमिचउद्दसीसु जम्मदिणे । णाणे णिवाणे चा-उमासअट्टाहिपज्जुसणे !" इति नवपदप्रकरणवृत्तिवचनं तथा "तं च चउद्दसिअहमि-पज्जोसवणाइपवदिवसेसु । साहुसगासे
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy