________________
पौषधषट्त्रिंशिका
॥ २२ ॥
'सोsटमी' मित्यादि, स पौषधोपवासः - उभयोः पक्षयोरम्यादितिथि' मऽभिगृ' निश्चित्य बुद्धचा 'अन्यतमां वे 'ति प्रतिपदादितिथिमनेन चान्यासु तिथिष्वनियमं दर्शयति, नावश्यन्तयाऽन्यासु कर्त्तव्यः, अष्टम्यादिषु तु नियमेन कार्यः 'चतुर्थाशुपवासिने' ति कर्त्तलक्षणा तृतीया, पृथग्जनस्यानियतानि भक्कानि, मुमुक्षूणां सकृद्भोजनं, मध्यमजनस्य भक्तद्वयं तत्र मध्यमां प्रतिपत्तिमाश्रित्य चतुर्थादितपोगणना, raiser प्रत्याख्यातमित्येको भोजनकालः, द्वितीयेऽहनि भक्तद्वयच्छेदः, तृतीयेऽहनि चतुर्थभक्तकाले भुंक्ते इति चतुर्थभक्तमुच्यते, एक उपवासः कदाचिदुत्तरपदलोपाच्चतुर्थभक्तमेव चतुर्थः, तदाद्युपवसति यस्तच्छिलय स चतुर्थायुपवासी, आदिग्रहणात् पूर्वगणनयैव पष्टामादिसमस्ततपोविकल्पग्रहणं, स्नानमुदकेन, अनुलेपनं चन्दनकुङ्कुमकस्तूरिकादिना, गन्धा वासादयः पक्त्रिमादिभेदेनानेकविधाः, माला माल्यं पुष्पप्रकरः, अलङ्कारो वस्त्रकेशकटकादिः, व्यपगताः स्नानादयो यस्येति न्यस्तो निक्षिप्तः सर्वसावद्ययोगो येन, सर्वशब्दः पूर्ववत् कुशास्तृणजातिरशुपिराः कुन्थ्वायादीनामनाश्रयास्तत्कृतः संस्तरः कुशसंस्तरः संस्तीर्यतेऽसाविति संस्तरः, xx फलकमप्यशुषिरं चम्पकादिपखण्ड, आदिग्रहणाद् द्विदलवस्त्रकम्बलीपरिग्रहः, अन्यतममिति उक्तानां मध्ये यथालाभमास्तीर्य - विरचय्य प्रतनु निद्रेणानुष्ठेयः, अथवा स्वशक्त्यपेक्षया स्थानादिविधिनाऽनुष्ठेयः, तदाह-स्थानमृध्यैलक्षणं कायोत्सर्गाख्यं वीराणां संहननयुक्तानां आसनं जान्वधोभागतुल्यमञ्चिकादिनिविष्टस्यापनीताधोमञ्चिकस्य तथाऽवस्थानं वीरासनमुच्यते, निपया समस्फिगुनिवेशनं पर्यङ्कबन्धादिः, वा शब्दो विकल्पार्थः, स्थानादि वा शयनं वा अन्यतममिति यदेवाभ्यस्तं, आस्थायेति परि( प्रति ) गृध, धर्मस्तु श्रुतचरणभेदाद्विधा, तत्र श्रुतधर्मो वाचनाप्रच्छनाऽनुप्रेक्षास्वाध्यायधर्मोपदेशलक्षणः चरणधर्मो महाव्रताणुव्रतोत्तरगुणभेदतः तद्विषयं जागरणं- जागरिका, धर्म जागरिका धर्मजागरिका, न खार्त्तरौद्रविकथायाश्रिता जागरिकेति एवम पोपवासः सम्यग् गृहिणाऽनुष्ठेय" इति तत्त्वार्थभाप्यवचनव्याख्याने
खरतर जय सोमीया
॥ २२ ॥