________________
पर्वतिथिषु पौषधव्रतं, परं शास्त्राणि सर्वाण्यपि परस्परमविसंवादीनि 'विचारतो विशेषप्रतिपत्तिरपी'ति विद्वत्सङ्केत. इति तत्वार्थभाष्यतद्व्याख्याने अपि विचारणीये इति तटस्थाभिमतवचो विचारयितुं गाथामाह
तत्तत्वविवरणे जं, 'पडिवाइसु अणिययत्तमस्सुत्तं । तत्थ य बीयं सत्ती-सभ्भावाई न वोतव्वं ।२७। व्याख्या-'तत्वार्थविवरणे' सिद्धसेनगणिविरचिततत्त्वार्थवृत्तौ प्रतिपदादिषु' तिथिषु-चतुर्दश्यष्टमीपूर्णिमाऽमावास्याभिधानतिथिविशेपावशिष्टेषु दिनेषु यत् 'अस्य' पौषधोपवासस्य अनियतत्वमवश्यन्तयाऽकरणीयत्वं 'उक्तं' प्रतिपादित विवरणकारेण, तथाच चतुर्दश्यष्टमीपञ्चदशीषु तन्नियतत्वञ्चोक्तमिति प्रस्तावादायातं, तत्र 'शक्तिसद्भावादि' शक्ति-स्तत्कर्तुः सामर्थ्य, तस्याः सद्भावो-ऽस्तित्वं. स आदिर्यस्य | तासु तदकरणेऽपि प्रायश्चित्ताभावादेस्तच्छक्तिसद्भावादि 'बीज' हेतुर्न वक्तव्यं, अयम्भावः “पौषधोपवासो नाम-पौषधे उपवासः पौषधो
पवासः, पौषधः पर्वत्यनर्थान्तरं, सोऽष्टमी चतुर्दशी पञ्चदशीं अन्यतमा वा तिथिमभिगृह्य चतुर्थाद्युपवासिना व्यपगतस्नानुलेपनगन्धमाल्यालङ्कारेण न्यस्तसर्वसावद्ययोगेन कुशसंस्तारकफलकादीनामन्यतम संस्तारकमास्तीर्य स्थान वीरासननिषद्यानां वाऽन्यतममास्थाय धर्मजागरिकापरेणानुष्ठेयो भवति" इति तत्त्वार्थ(अध्याय७ मूत्र १६)भाष्यं, अर्थतवृत्तिः “पौषधोपवासो नामेत्यादिना पौषधस्वरूपं निरूपयतिरूढ्या पौषधशब्दः पर्वसु वर्त्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात्पर्व, धर्मोपचयहेतुत्वात् , तत्र पौषधे-पर्वणि उपवासः पौषधोपवासः, त्रिविधस्य चतुर्विधस्य वा आहारस्य छेदः, साधने कृते सति भवति समासो. योगविभागेन वा सप्तमीसमासो, नाम शब्दो वाक्यालंकृतौ, यस्य वा नियमविशेषस्येदं नाम पौषधोपवासः, सोऽयमाख्यायते 'पौषधे उपवास' इत्यादिना भाष्यकारेण, 'अनर्थान्तरं' इत्येकार्थता, १“पडिवाइतिहिसु तस्सऽणियय(त्तमु)त्तं । तत्य वीयं न वत्तव्यं, सत्तिसम्भावमाईसु।२७" इत्यस्यां गाथायां विमुच्य प्रथमपादं शेष पादत्रयं अस्त्येवं प्रत्यन्तरे । २ “यतस्तस्य इति प्र०।