________________
विवरणकारैरक्षरविन्यासीकृतः सोऽर्थो न प्रवृत्तिकरो 'ज्ञेयो'ऽदगन्तव्यः, नोनमर्थमुरुरीकृत्य कश्चित्पौषधव्रते मवर्त्तते, किन्तु गच्छतीति गोरित्यादिवद् व्युत्पत्तिमात्रमेवार्थ इति भावार्थः तथाचोक्तं श्रीगुरुचरणैः समवायाङ्गविवरणे (१९ पत्रे ) तथाहि "पौषधं - पर्वदिनमष्टम्यादिस्तत्रोपवासो - अभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव प्रवृत्तिस्त्वस्य शब्दस्याहारशरीरसत्काराब्रह्मचर्यव्यापार परिवर्जनेष्विति" ध्येयं ।२४| नन्वाहारपरिहारादिपदानां समस्तानामिव व्यस्तानामपि तद्वाचकत्वेन समं समाधानमिति विपक्षिपक्षं प्रतिक्षिपन्नाह
आहाराइपयाणं, जइवि हु कयदेससव्वभेयाणं । भंगा भवंति असिई, तुवि दो भैया वऽणुमया | २५॥
व्याख्या - यद्यपि 'हु' निश्चये 'आहारादिपदानां ' आहारपरित्याग शरीरसत्कार परिहाराब्रह्मचर्यं परिहारव्यापारपरिहाररूपाणां चतुर्णां पदानां अशीतिर्भङ्गा ' भवन्ति' जायन्ते, किम्भूतानामाहारादिपदानां ? ' कृतनेश सर्वभेदानां' देशश्च सर्वश्व देशसव. तौ च तौ भेदौ च देशसर्वभेदौ कृतौ देश सर्वभेदौ येषां (तानि) ते तथा तेषां, 'तुवि' तथापि 'व्रते' पौषधत्रते परमार्थतश्चतुष्कसंयोगिनौ आहारस्य देशसर्व परित्यागरूपौ द्वौ 'भेदा' इति "बहुबयणेण दुबयणं" इति प्राकृतलक्षणात् भेदौ अनुमतौ सर्वधर्मगच्छीयगीतार्थानामिति शेषः, अयम्भावःएककसंयोगाः सर्वे अष्टौ भङ्गाः, द्विकसंयोगाः पड्भङ्गाः १२।१३।१४।२३।२४।३४।पतेषु एकैकस्मिश्च द्विकसंयोगे दे. दे१ । दे. स२|स. दे३ । स.स४|रूपाश्वखारो भङ्गाः, एते षहूगुणाश्चतुर्विंशति, त्रिकयोगाः १२३|१२४/१३४/२३४ चत्वारो भङ्गा भवन्ति, एकैकस्मिथ त्रिकयोगे देश सर्वभङ्गापेक्षया दे. दे. दे १। दे.दे.स २दे.स. दे ३ । दे.स.स ४ स. दे. दे ५।स.दे.स ६ स.स.दे ७ स.स.स ८|इत्येवं अष्टौ अष्टौ भङ्गाः स्युः, ते च चतुर्गुणिता द्वात्रिंशत्सर्वे भवन्ति, चतुष्कयोगे १२३४एकः, तत्र देशसर्वापेक्षया षोडशभङ्गाः, तथाहि - दे. दे. दे. दे२ । दे. दे.दे.स२ । दे.दे.स. दे३ । दे.वे.स.स४ वे.स. दे. दे५ । दे.स.दे.स६ । दे.स.स.दे७ दे स.स.स८|स. दे. दे. वे९। स.दे.दे.स १०/स.दे.स. दे११। स.दे.स.स १२ स.स. दे. दे१३। स.स.दे.