SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ पना पौषधशब्दश्च एकादश तेन च श्रीविजयराजस्य कथं शास्त्रयुक्त्याऽहंदुक्त्या पौषधव्रतसप्तकं भवता ततन्यते ?, अभिग्रहविशेषस्तु यावदहमेनमुपसर्ग न निस्तरामि तावन्ममायं नियम इत्येवम्भूतो भवेदपि, पुराऽपि “नियमजुत्तो राया नित्थरिहिति" इति वाक्येन नियमस्यैव स्फूर्तिदेर्शिता, अभिग्रहे तु सङ्केतरूपत्वेन मध्यान्हेऽपि निर्गमो न दुर्गमः, अहन्नमस्कारमात्रेण तत्पारणमपि न पास्पदं, तथाचात्र पौषधशब्देन न व्रतविशेषः, किन्वभिग्रहविशेष इति सम्भाव्यते, "सर्वतो गरीयसी भगवती अन्यथानुपपत्ति'रिति शिष्टसङ्केतादन्यथानुपपत्तिरेवात्र नियामिति तत्त्वं ॥२२॥ | ननु पौषधोपवास पौषधरूपाभ्यामभिधेयेऽभिग्रहे कथमेकादशवताभिसन्धिर्नाभिधीयते भवतेति(प्रश्ने समाधानमाह)मश्नं समादधान आह पोसहउववासपयं, पोसहसदो य पव्वउववासे । कत्थवि उववासे चिय, अन्नत्थवि पोसहे ति पयं ॥२३॥ ____ व्याख्या-पौषधोपवासपदं च पुनः पौषधशब्दश्च एकादशवतार्थ विनाऽपि कुत्रापि शास्त्रे 'पर्वोपवासे' पर्वदिनोपादेयाभक्तार्थे दृश्येते, मध्यस्थः "कत्थवी"ति शब्दो 'डमरुकमणि'न्यायेनाग्रेऽपि लगयितव्यः, तथाच कुत्रापि शास्त्रे 'उपवास एवं' केवलेऽभक्तार्थ एव दृश्येते, पौषध इति पदं "अन्यत्रापि' अर्थान्तरेष्वपि दृश्यते इति गाथार्थः । अयम्भावः-पौषधोपवासपदं.पौषधे-पर्वणि उपवासः पौषधोपवासः इति व्युत्पत्त्या पर्वदिनानुष्ठेयाऽभक्तार्थे सर्वत्र सिद्ध, पौषधशब्दोऽपि "पोसहियतवेत्ति पोषं दधातीति पोषधं-अष्टमीपाक्षिकादि, पोषधे भवं पौषधिक. तच तत्तपश्चर्या पौषधिकतपः" इति व्यवहारभाष्य(पीठिका पत्र ४५) व्याख्यानात् तथा “पोसहो अहमि चउद्दसीसु उपवासकरण"मिति पाक्षिकसूत्रचूर्णिवाक्येन च पर्वदिनाभक्तार्थे सिद्ध, तथा पौषधोपवासपदं "बाराभोयं पोसहोववासं पहविमु" त्ति पाठान्तरमसिद्धदशाश्रुत(स्कन्ध)सत्कपदैकदेशव्याख्यायां "द्वारं आभोग्यतेऽवलोक्यते यैस्ते द्वाराभोगाः-प्रदीपाः, आहारत्यागरूपं उपवासं च कृतवन्तः" इति कल्पाध्ययनविषमपदनिरुक्तोक्त्या उपवासमात्रेऽपि सिद्ध, तथा पौषधपदमपि "कइयाई च(भाणु)सेठी जिण , तथाच कुत्रापि शास्त्र पर्वणि उपवासः पापोषधे
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy