________________
सन्नाहनोपदेशस्नानमज्जनादिसावद्ययोगप्रवृत्तस्तदाधिकायाः साक्षादुपलभ्यमानत्वात् , तथा "अट्टमभत्तं पारइ” इति वाक्ये नाष्टपतप:पारणस्यैव समर्थितत्वात, ततश्चाभयाधिकारेऽष्टमपारणे पौषधपारणस्य. भरताधिकारे पौषधपारणेऽमपारणस्य प्रणयनात्पौषधाष्टमयोरत्र एकत्वमसीयते, अन्यथाऽत्र ग्रहणं पौषधस्य पारणं चाष्टमस्येति विरोधः स्यात् । न च पौपधपारणादनु सावद्यकार्य करणं तम्य भविष्यतीदि वाच्यं, अत्रैव वरदामतीर्थसाधनाधिकारे “अहतं (अखण्डित) चाउग्चंट आसरह पोसहिए नरबई दुरूडे" इति वाक्यैकदेशेन पौपधिकस्य तस्य रथारोहणमादिष्टं तद्दारा सर्वाप्यपि समुद्रावगाहनादीनि अष्टमपारणकपर्यन्तान्यपि सावद्यकृत्यानि समुपात्तानि द्रष्टव्यानि, तथाच कथमेकादशे व्रते तस्मिन पौषधशब्देन कहप्यमाने एतावत्सापद्यकर्मावकाशः १. अभक्तार्थ तु यथारुचिसावधव्यापारपरिहारस्येष्टत्वाददुष्टत्वं ध्येयं, अपरं तत्रैव ग्रन्थे (२१४ पत्रे) "सिंधुदेवीए अहमभत्तं पगिण्डइ २त्ता पोसहसालाए पोसहिए बंभयारी जाव दभ्भसंथारोवगर अहमभत्तीए सिंधुदेवों मणसि करेमाणे चिट्ठति । ततेणं तस्स भरहस्स रण्णो अट्ठमभत्तसि परिणममाण सि सिधृए देवीए आसणे चलिते" इत्यादि "जाव पडि विसज्जेति, तवेणं से भरहे राया पोसहसालातो पडिनिख्खमति २त्ता जेणेव मजणघरे तेणेव उवागच्छइ २त्ता हाते कयवनिकम्मे नाव जेणेव भोयणम्भव तेणेव उवागच्छइ २त्ता भोयणमंडवंसि सीहासणवरगते अट्टमभत्तं पारेइ" इति मूत्रेणापि तस्य पौषधशब्देनाष्टमलपोविशेषरूपाभक्तार्थ एक समर्थितः,तथा श्रीमदावश्यकबृहद्वृत्तौ श्रीहरिभद्राचार्यकृतायां (१५-पत्रे) "पुत्रेण य मागहतित्थं पाविउण अहमभत्तोसितो रहेण स मुद्दमवगाहित्ता चक्कणाभिं जाव, ततो नामकं सरं विसज्जेई" इतिवाक्यादष्टममात्रमेव पीपधपदवियुनं दर्शितं भरतस्येत्यपि ध्येयं, तथाच भरतालापकैरभयकुमारालापकेन च का पाठ भेदः ? को वा सावद्यकर्जुले भेदोऽस्ति ?, येनकत्रोपवास| मात्रार्थवाचकताऽन्यत्र च व्रतार्थवाचकत्वं पौपधस्येनि विमर्शनीयं, नस्मादगीकुरु सर्वबहुश्रुताविश्रुतमपि भरते पौषधवतं, त्यज वाऽभये