________________
पौषध
खरतर जय सोमीया
॥१८॥
पौषधवताभिसन्धिमिति प्रतिबन्दीवचो विचार्य, नन्वयं जीत एव, यदुत चक्रिणः पौषधवताहते न देवताऽऽगमनं भवेदिति तस्योपवास- | मात्रकर्तृखकल्पना कथङ्कार कार्येति चेन्न, "तहवि असद्दईतो सवाणि एगिदियरयणाणि लोहमयाणि करित्ता सबबलेण तिमिसगुहं गतो,
अहमे भत्ते कए भणति कयमालो-अतीता चक्कवट्टिणो, जाहि त्ति, णेच्छति, हत्थिं विलग्मो, मणि हथिमत्थए काऊण पत्थितो, | कयमालेण आहतो मतो गतो छठ्ठीए पुढवीए" इति श्रीआवश्यकचूर्णिकारेण (उचरार्द्ध?७६पृष्ठे) कूणिकाधिकारे भवदुक्त्या पौषधव्रतसाध्ये सुरेऽष्टम एवोद्दिष्टो, न पौषधः, इति अष्टमेनापि तदधिष्ठाता देवो दर्शनं ददौ, न्यूनाधिकसाधनाऽऽराधनायामाराध्यस्य दर्शनदानायोगात् , न च द्विष्टतया स तस्य दर्शनं ददाविति वाच्य, पूर्वमद्विष्टत्वाख्यातेऽपि तद्वाक्याकरणाविष्टत्वमिति दिक् , तस्मात्पौषधशब्देनात्र द्वादशस्वपि स्थानेषु अष्टमतपोविशेष एवावसेयः, कृष्णवासुदेवाधिकारेऽपि "जेणेव पोसहसाला तेणेव उवागच्छइ २त्ता जहा अभओ, णवरं हरिणेगमेसिस्स अट्ठमभत्तं पगिण्हति, जाव अंजलिं कट्ट एवं वयासी-इच्छामि गं देवाणुप्पिया० ! सहोदरं कणीयसं भाउयं विदिण्णं, ततेणं
से हरिणेगमेसी किण्ई वासुदेवं एवं वयासी” इति (८ पत्रे) श्रीअन्तकृद्दशापाठेन पौषधशब्दोक्तावपि अष्टममात्रमेव कृष्णस्य सर्वैरभ्युपRS] गम्यते, अविरतिसम्यग्दृष्टित्वेन व्रतधारित्वानभिसन्धानात्, तथा चोक्तं "ता सद्दहिज्जा पत्तिएज्जा रोएज्जा, से णं सीलवयगुणवय.
रमणपञ्चख्खाणपोसहोववासाइपडिवज्जेज्जा ?, णो तिणठे समठे, से णं दसणसावए हवइ, अभिगयजीवाजीवे जाव अद्विमिंजपेमाणु| रागरत्ते” इति श्रीदशाश्रुतस्कन्धे, अन्यच्च “जहा अभो त्ति" सूत्रपाठेन कृष्णाभययोः पौषधाङ्गीकाराधिकारे यत्साम्यमुपादर्शि तदपि विचार्यमेव, कृष्णस्य पौषधव्रतसिद्धावभये पौषधवसिद्धिरिति भावः, तथा स्थानाभिधानग्रन्थवृत्तावपि "समयमि तओ कण्हो, पोसहसालाइ अहम भत्तं । हरिणेगमे सिदेवं, मणम्मि काउ पगिण्हेई ।। उम्मुक्कमणिमुवण्णो, ववगयमालाविलेवणो तत्थ । तणसंथारनिसण्णो, चिइ
॥१८॥