________________
२त्ता पोसहसालाए पोसहिए बंभयारी जाव पुत्वसंगतिय देवं मणसि करेमाणे २ चिति" इत्यादिरूपज्ञाताङ्गालापकेनाभयकुमारस्य यद्यपि पौषधशब्दप्रणयनमकारि तथापि पौषधशब्दो नात्र व्रतविशेषवाची, अकाळजलदवर्षणाशंसानुगतत्वेन मानसिकसावयवत्वान्न तदानीं स | सर्वसावधयोगव्यापाराभाववान् , नहि तेन विना पौषधवतं सर्वसुविहितसम्मत्या स्वात्मलाभ लभते, तथैहिकोपकारकारिपूर्वसङ्गतिकारस्मरणमपि न तत्र सङ्गतिमङ्गति, यतः १ "तम्मि कए पढइ. पोत्थयं वा वाएइ, धम्मज्झाणं वा झियायइ, जहा एए साहुगुणा अहं न समत्थो धारेउ, एवमाइ विभासा" इत्यावश्यकचूणिवाक्यादा-ध्यानं तस्य कर्तुं नोचितमिति सूचित, वृद्धधर्मध्यानमात्रस्यैव तत्पतिपद्यमानताया| मङ्गतयाऽऽम्नातात् , वर्षावर्षणाभिप्रायस्य चाऽऽर्तध्यानत्वं सर्वसिद्धमेव, स्थूलसर्वसावधव्यापारपरिहारवत्त्वं च तस्य सामायिकानुगतत्वात् , यदार्ष “सामाइयंमि य कए, गिहकज्जं जो विचिंतए मूढो। अट्टवसट्टोवगओ, निरत्ययं तस्स सामइयं ।१।” इति विभाव्य, अपरं तत्(ज्ञाता)सूत्रपदैकदेशविवरणेऽपि (३४ पत्रे) “पोसहसालाए पोसहिए ति-पौषधं' पर्वदिनानुष्ठानमुपवासादि तस्य 'शाला' गृहविशेषः पौषधशाला तस्यां 'पौषधिकस्य' कृतोपवासादेः" इत्यादिवाक्यादत्रोपवासस्यैव मुख्यतोपात्ता. न च "निख्खित्तसत्थमुसले” इत्यादिपदानि पौषधव्रतोदोधकानीति वाच्यं, तथा च सति "तएणं से पउमनाभे राया कच्छुल्लनारयस्स अंतिए एयमई सोचा निसम्म दोवतीए देवीए | रूवे य ३ मुच्छिए ४ दोवइए अज्झोववण्णे, जेणेव पोसहसाला तेणेव उवागच्छइ २त्ता पोसहसालं जाव पुत्वसंगतियं देव" चेत्यादौ (पत्र२१४) ज्ञाताङ्गषोडशाध्ययनवाक्येऽपि भवत्परिभावितसर्वपदानां "जाव" पदेन सगृहीतत्वात् तस्यापि पौषधनतताऽऽपत्तिः स्यात् , न च तस्मिन् पौषधव्रतं कस्यापीष्टं, जिनधर्मवासनाया अपि तस्मिन्नभावात्, ननु “पोसह पारेइ"त्ति वाक्यादभयकुमाराधिकारे पौषधपदेन व्रतसम्भावना
१ "तोम्मुकमणि सुवष्णो पढतो पोत्थग वा वायंतो धम्मज्माणं झियायति, जथा एते साहुगुणा अहं मंदभग्गो असमत्यो त्ति विभास।" इति मुद्रिताव०चू०उ० पृष्ठ ३०४ ।