________________
पौषधपब्रिशिका
खरतर जय सोमीया
॥१६॥
दशमत्वमेव स्यात् , अस्मदभिप्रायेण तु सर्व समञ्जसं, न च नन्दाधिकारे कथमित्थमेव नोरुरीक्रियत इति वाच्यं, इष्टापत्रस्मत्पूर्वजानां तथैवाभिप्रायात् , पूर्वसमाधानविधिस्तु तन्त्रान्तरमपेक्ष्यैवोक्त इति युक्तिलेशः ।२०। ननु भवतु तावत्सुबाह्वादिषु भवदाकूतेन समाधानं, परमभयकुमारकृतपौषधत्रये पर्वपदराहित्येन कथं ? भवद्विभावितपक्षा पुष्टत्वमवशिष्टमिति नेदिष्ठद्विष्टोद्दिष्टमनिष्टमपाकुर्वन्नाह
अभयकुमारस्स तहा, अणुचियसावजकज्जकारिता । भरहस्स व किण्हस्स व, न य जुत्तं पोसहो ति वये।२१। ___ व्याख्या-'तथा' इति पूर्वपक्षिपरामर्शवावयं, 'अभयकुमारस्य' ज्ञाताङ्गप्रसिद्धस्य श्रेणिकसुनोः 'पौषध इति' पौषषपदं व्रते न युक्तं, चस्यैवकारार्थाभिधानात् नैवोचितं, "सति धर्मिणि धर्मान्वेषण"मिति न्यायात्सति पौषधवते पर्वापर्वविचारणोचितेति चर्चः, तदियता साध्यनिर्देशः, अत्र हेतुमाह-'अनुचित सावद्यकर्मकारित्वात्' अनुचितानि-पौषधिकापायोग्यानि यानि सावधकर्माणि-सपापव्यापारास्तानि करोतीत्येवंशीलोऽनुचितसावधकर्मकारी, तस्य भावस्तत्त्वं, तस्मात, दृष्टान्तावाह-'भरतस्येव कृष्णस्येव' च, यथा भरतस्यार्पभेः यथा च कृष्णस्य पौषध इति पदं न व्रते. तथा तस्मादेव हेतोरत्रापि पौषधपदं न व्रतवाचकमित्यनुमानलेशः, न चासिद्धो हेतुः, जलदवर्षणनैमित्तिकपूर्वसङ्गतिकसुरस्मरणादिरूपाध्यानस्य तत्र विद्यमानत्वात् , तथाहि (ज्ञाताङ्गे ३० पत्रे) "अत्थि णं मज्झ सोहम्मकप्पवासी पुबसंगतिए देवे महिडीए जाव महासोख्खे, ते सेयं खलु ममं पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुक्कमणिसुबन्नस्स बवगयमालावण्णगविलेवणस्स निख्खित्तसत्थमुसलस्स एगस्स अबीयस्स दम्भसंथारोवगयस्स अट्ठमभत्तं पगिण्हित्ता पुत्वसंगतिरं देवं मणसि करेमाणस्स विहरित्तए. तएणं पुत्वसंगतिए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयास्वं अकालमेहेसु डोहलं विणेहिति, एवं संपेहेति २त्ता जेणेव पोसहसाला तेणेव उवागच्छइ २त्ता पोसहसालं पमज्जइ २त्ता उच्चारपासवणभूमि पडिलेहेति २त्ता दम्भसंथारगं दुरूहति २त्ता अहमभत्तं पगिण्हति
॥१६॥