________________
इति विपाकश्रुतपाठात् 'अष्टमभक्तमस्यास्तीत्यष्टमभक्तिकः' इति विशेषणं सुबाहोरेव, न पौषधस्य, अष्टमभक्तिकवं तु तृतीय एव दिने स्यान्नार्वाक् , इतरथा अष्टमभक्तिकस्य मुनेः प्रथमदिनेऽपि अष्टमभक्तत्वात् दशाष्टमाध्ययनोक्ततत्तृतीयदिनप्रायोग्यपानकत्रयमेवोपादेयं भवेत् , न षष्ठचतुर्थमायोग्यपानकानि, अनिष्टश्चैतत् , सर्वेषामपि विदुषां तथैवेष्टत्वात् , तथा विकृष्टभक्तिकस्यापि साधोः प्रथमदिनेऽपि उष्णविकटमेवोपादेयं स्यात् , नोत्स्वेदिमादिकमित्यपि ध्येयं, असङ्गतश्चैतत्, तृतीयदिनादुपर्येव तस्य देवताऽधिष्ठितत्वेन शेषपानकानामपेयतयाऽऽम्नातात् , तथाच दशासूत्र “विकिभत्तियस्स भिख्खुस्स कप्पइ एगे उसिणवियडे" इति, किश्च युगपदष्टमप्रत्याख्याने प्रथमदिने चतुविधाहारपरिहारिणोऽन्ययोस्तयोः पानकाहारकर्तुरष्टमप्रत्याख्यातुरायदिने कथं प्रत्याख्यानं भवेत् ?, तथा अष्टमप्रत्याख्यातोपासकः पाण्मासिकतपश्चिन्तनावसरे आद्यदिने अष्टमं कर्तुं शक्नोमीत्युक्तौ सत्यां द्वितीयेऽन्हि किं तपः कर्तुं शक्नोमीति ब्रूयात् ?, तथा प्रथमेऽन्हि अष्टमभक्तं प्रत्याख्यामीत्युक्तावङ्गीक्रियमाणायां एकाभक्तार्थकर्तुः “सुरे उग्गए चउत्थभत्तं पञ्चख्खामी"ति प्रत्याख्यानपाठपठनप्रसङ्गः, पठ्यते च “सूरे | उग्गए अभ्भत्त"मित्यादि, आवश्यकसूत्रे (८५३पत्रे) तथैवोपलब्धेश्व, तथाच षष्ठाष्टमादिप्रत्याख्यानेष्वपि "सूरे उग्गए अभ्भत्तई पच्चरुखा
मी"ति पाठो वाच्यो, न "छठ्ठभत्तं पच्चख्खामी"ति पाठः, षष्ठाष्टमादीनान्तु सङ्केतमात्रत्वात् , तथाऽऽद्यदिने युगपदष्टमप्रत्याख्याने दिनान्तर| योः किं प्रत्याख्येयं स्यात् ?, पानकोच्चारे तु अभक्ते चतुःस्थानताहानिप्रसङ्गः, यदुक्तं "पढमंमि चउत्थाई, तेरसबीयंमि तइयपाणस्स ।
देसावनासतुरिए" इतिप्रत्याख्यानभाष्ये, तथा युगपत्पत्याख्यातुर्दिनत्रयेऽप्येकदिनपत्याख्यानभने सर्वप्रत्याख्यानभङ्गप्रसङ्गश्चेति बहुमष्टव्य| मत्रालं प्रसङ्गेन, न च चतुर्दश्यादिषु पौषधं विधाय तदनु दिनद्वयेऽपि तदङ्गोकारेणाष्टमत्वं स्पष्टमेवास्य स्यात् , किं कल्पनागौरवेणे ति वाच्य, तदा सति पूर्णिमाऽमावास्ये कल्पान्नेऽपि तस्याष्टमं न घटामाटीकते, चतुर्दश्यां भवदभिप्रायेण पाक्षिकत्वेनाभक्तकरणावश्यकत्वेन