________________
खरतर जयसोमीया
पौषध- सूत्रवृत्तौ (१६५ पत्र) रत्नशेखरमूरिणा “ननुपौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्टयौ, न प्रतिदिवसाचरणोयौ'इति श्रीपत्रिंशिका न हारिभद्रीयावश्यकबृहवृत्तिश्रावकमज्ञप्तित्त्यादौ च साक्षादुक्तस्तनिषेध इति चेत् ? अहो !! ग्रन्थकाराभिप्रायाभिज्ञता भवतः, नहोदं वचनं
| पर्वान्यदिनेषु पौषधनिषेधपरं किन्तु पर्वसु पौषधकरणनियमपरं, यथाऽऽवश्यकवृत्त्यादौ श्राद्धपञ्चमप्रतिमाऽधिकारे 'दिवैव ब्रह्मचारी, न ॥११॥
तु रात्रौ' इति वचनं दिवसे ब्रह्मचर्यनियमार्थ, न तु रात्रौ ब्रह्मचर्यनिषेधार्थ, अन्यथा पश्चमप्रतिमाऽऽराधकश्राध्धेन रात्रावब्रह्मवारिणेव भाव्यमिति पापोपदेश एव दत्तः स्यात्" इत्याद्यक्षरैराक्षेपपूर्वकः परिहारः प्रकटितोऽस्ति, सोऽप्यविचास्तिकमनीयस्तद्यथा-न तावद्वयनावश्यकबृहद्वृत्त्यादाविमं पाठं भवदुक्तमुपलब्धवन्तो, येन किमपि विचारयामः, अतः कथमिवैतद्दृष्टान्तेन तत्र तदर्थसाधनं साधीयः स्यात् ?, विना वोढारं विवाहोपकरणमेलक इव प्रत्युतोपहास्यनिवन्धनं, तदस्तित्वेऽपि नैतयोनिषेधयोः साम्य, तत्र तु “न प्रतिदिवसाचरणीया"विति पाठोऽत्र तु “न तु रात्रा"विति पाठः, यदि “रात्रौ न ब्रह्मसमाचरणीय"मिति पाठस्तत्र स्यात्तदा साम्यमपि द्वयोनिषेधयोः स्यात् , न च तथा पाठोऽस्ति, तत्र तु(६४७पत्रे) “दिया बंभयारि राती-परिमाणकडे अपोसहिए। पोसहिए रतिमि य, नियमेणं बंभयारी य।" इत्येवम्भूतः पाठोऽस्ति, तथा च न काऽपि क्षतिः, अपरं तथात्वे "पव्वेसु पज्जोसवियध्वं, नो अपव्येसु” इत्यादौ निशीथचूर्णिकर्तुरपि पुण्यविधातभियाऽपर्वण्यपि पर्युषणाकारित्वमनुमास्यते, न चैतत्सङ्गतमिति, तस्य पूर्वपक्षोत्तरपक्षसन्दर्भः कुशकाशावलम्बनमाय एवेति मन्तव्य इति गाथार्थः ॥११॥ ननु भवतु तावदेतेषु ग्रन्थेषु नियमितदिनकर्त्तव्यता अन्यदिनेषु च निषेधः पौषधस्य परं चरितानुवादानुवृत्त्या नन्दमणिकारोदायनावनिनायकयोः पर्वान्यदिनेष्वपि पौषधप्रवृत्तिः श्रूयते सच्छ्रावकजन विहितधर्मकार्यत्वेन च श्रुतमूलकत्वमप्यनुमास्यते तस्याः, तथाच पर्वान्यदिनेष्वपि तत्करणमायातमित्यारेकातिरेकतां निरस्यन्नाह
॥११॥