________________
न प्रतिदिवसं समाचरणीयौ, पुनः पुनरष्टम्यादिपर्वतिथिष्वनुष्ठीयेते” इति तत्वार्थवृत्ति (द्वितीयविभागे ८८ पत्रे), तथा "तत्र प्रतिदिव सानुष्ठेये द्वे सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठयो, न प्रतिदिवसाचरणीयाविति” (पृष्ठ १८२) श्रावकमज्ञप्तित्तिर्हारिभद्रीया, तथा "एत्थ उ सावगधम्मे, पायमणुच्चयगुणवयाई च । आवकहियाई सिख्खावयाई पुण इत्तराई ति ॥३९॥” पञ्चाशकसूत्रं, "व्याख्या-'एत्य'त्ति पुत्वभणिए 'तु'सद्दो विसेसं करेइ, तहाहि-जइ धम्मे महचयाणि आवकहियाणि चेव भवंति, एत्य पुण सावगधम्मे पायमणुचयाणि य गुणवयाई च जावज्जीवियाणि भवंति, पायगहणाओ पुण चाउम्मासाइकालपमाणेण वि भवंति, सिख्खावयाणि पुण 'इत्तरियाणि' अप्पकालियाणि, तत्थ पइदिवसाणुढेयाणि सामाइयदेसावगासियाणि, पुणो पुणो उच्चारिजंति त्ति भणिय होइ, पोसहोववासअतिहिसंविभागा पुण पत्तिनियतदिवसाणुछेया, न पइदिवसाणुछेया"इति पञ्चाशकचूर्णिः, एवं पञ्चाशक वृत्तिः (३० पत्रे) श्रीश्रीचन्द्रसूरिकृतषडावश्यकत्तिरपि, तदेवमेवम्भूतप्रभूतग्रन्थपद्धतिपर्यालोचनेन पर्वान्यदिनेषु पौषधमतिषेध एवायाति, न च सामायिक व्रतस्योभयकालाहते करणनिषेधः काप्यागमे समुपलब्धः, प्रत्युत (उत्तरार्ध ३०२ पृष्ठे) “जाहे खणिो ताहे करेइ तो से न भज्जइ” इत्यावश्यकचूर्णिवक्तव्यतया ऋद्धिमाप्तानृद्धिमाप्तोपासकानां साधोः समीपे चैत्यगृहादिषु सामायिकग्रहणाक्षरोपलब्ध्या चान्यदाऽपि तदङ्गीकारः शास्त्रकारः प्रादुरकारि, न च प्रतिक्रमणस्योभयकालसमाचरणीयतया तत्सहगतत्वेन सामायिकस्याप्युभयकालकरणीयत्वमायातमिति वाच्यं, “आवासयं कुणतो नियमा करेइ” तथा “जत्थ वा निवावारो अच्छइ तत्थ सदत्य करेइ सामाइय” तथा “सामाइयं वा आवासयं वा करेइ” तथा “पच्छा सो इडिपत्तो सामाइयं काउण पडिकतो वंदित्ता पुच्छति"इत्यावश्यकचूाद्यक्षरैरावश्यकाभित्रस्यापि सामायिकस्य करणमनुसरणीयमिति बहुवाच्यमत्र ध्येयं, यस्तु(अर्थदीपिकाख्यायां श्राद)अतिक्रमण