________________
समवायाङ्गे (१९ पत्रे), तवृत्तिः “पौषधोपवासे निरतः-आसक्तः पौषधोपचासनिरतः (यः): एविवस्य श्रावस्य चतुर्थी प्रतिमेति प्रक्रमः, अयमत्र भावः-पूर्वप्रतिमात्रयोपेतस्य अष्टमीचतुर्दश्यमावास्यापौर्णमासीष्वाहारपौषधादिचतुर्विध पौषध प्रतिपद्यमानस्य चतुरो मासान् यावच्चतुर्थी प्रतिमा भवतीति"तथा “पोसहत्ति-पोसहपडिमा तास्सरूवमिमं-पुत्वोइयपडिमजुओ, पालेइ जो पोसहं तु संपुण्णं । अमिचउद्दसाइसु, चउरो मासा चउत्थि सा ।। आइसद्दामो पुण्णिमाऽमावसाओ घेप्पति"इति पञ्चाशकचूणौं तद्वृत्तौ उपासकदशातौ च. तथा "होइ चउत्थी चउद्दसि, अमिमाइसु (दियहेसु) पवेमु”इत्यावश्यकबृहद् वृत्तौ (६४७ पत्रे) तच्चूणीं च, तथा “अमीमाइपवेसु, सम्म पोसहपालणं । सेसाणुष्ठाणजुत्तस्स, चउत्थी पडिमा इमा।। व्याख्या-'अष्टम्यादिपर्वसु' चतुर्दशीपूर्णिमाऽमावास्यालक्षणेषु"इति ठाणावृत्तौ, एवं सर्वत्र पर्वस्वेव पौषधग्रहणं प्रतिमापतिपन्नानां श्रुतधरैर्दर्शितं, तेषां च सावकाशत्वं सर्वसम्मतमेव, तथाच निरवकाशानामिव सावकाशानामपि पर्वस्वेव पौषधाङ्गीकार इत्यङ्गीकार्यमिति तात्पर्यार्थः । ननु यथा तृतीयश्रावतिमा प्रतिपन्नस्य श्रमगोपासकस्य सामायिकग्राहिणः श्रीसमवायाङ्गवृत्तौ (१९ पत्रे), "तदेवमप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसन्ध्यं सामायिककरणं मासत्रयं यावदिति तृतीया प्रतिमे"ति वाक्यात् , तथोपासकदशावृत्तौ (१५ पत्रे) "वरदसणवयजुत्तो, सामाइयं कुणइ जोउ संज्झासु । उकेसेण तिमासं, एसा सामाइयपडिमा ।।"इति पाठाच श्रीमदभयदेवाचायः सन्ध्यासमये सामायिकग्रहणमादिष्ट, परमन्यदा तद्ग्रहणनिषेधाप्ररूपणेना निषिद्धमनुमत'मिनि न्यायादुक्तकालादन्यदाऽपि तत्करणं तेषां शास्त्रान्तरसम्मत्याऽनियततया अनुमतमेव, तथा नियमितदिनेषु तन्नयत्येनान्यदा तत्करणप्रतिषेधाश्रवणादन्यदिनेष्वप्यनियततया तदुपादेयमिति युक्तिं नियमितदिनान्यदिनेषु पौषधग्रहणनिषेधकशास्त्रसम्मतिप्रदर्शनेनापाकुनाह
तस्सावस्सयतत्तत्थ-सावगपण्णत्तिगंथवित्तीसु । पंचासगचुण्णीए, पइदिणकरणे निसेहो वि । ११ ।