________________
पौषत्रिंशिका
॥९॥
स्यात्, अथ तस्य चतुर्थ्यामाचरितत्वेन तचतुर्थ्यामेव तर्हि पाक्षिकाद्यपि चतुर्दश्यामेव यतस्तैरेव गीतार्थैः कालिकाचार्यैश्चतुर्थ्यां पर्युषणानिर्वाहाय चतुर्दश्यामेव तदाचरितं, अन्यथा हि सिद्धान्ताभिहितस्य पञ्चकदशकस्य दशमपञ्चकस्यापरिपूत्त तच्चतुर्थ्यो न निर्वहेदिति विचारः, तत्सिद्धमेतत्पाक्षिकादिमतिक्रमणं चतुर्दश्यामेव कर्त्तव्यं, गीतार्थाचरितत्वात्, चतुर्थ्यां पर्युषणापर्ववदिति” दिङ्मात्रमिति गाथार्थः ९ । अथ सर्वदाऽसदारम्भलग्नानां कुटुम्बव्यापारपारवश्यपङ्कनिमग्नानां भवोद्विनानां श्रमणोपासकानां चतुर्दश्यादिपर्वस्वेव पौषधकरणावकाशोऽस्तीति युक्तं तेषां पर्वसु पौषधकरणं, परमन्यदाऽपि सति समवकाशे तद्ग्रहणं समीहितमेवेति सार्वदिकं पौपधग्रहणमायातमिति तन्मतिं प्रतिषेधयन्नाहसावयाण वि, नियघरवावारविप्पमुक्काणं । पव्वेसु चेव पोसह - पडिमा समयंमि निद्दिा | १० |
व्याख्या- 'उत्कृष्टभावकाणामप्यास्तां मन्दसखानामुपासकानां तेषां कुटुम्बव्यापारभारापसारणेन सर्वदाऽपि तदवकाशसम्भव इत्यपेः सामर्थ्यादायातं, श्रावकाणामपि प्रतिमा रूपोत्कृष्टधर्मप्रतिपत्त्योत्कृष्टत्वमवसेयं 'पौषधप्रतिमा' मासचतुष्टयानुष्ठेयविशिष्टपौपचाभिग्रह विशेषः 'समये' सिद्धान्ते 'पर्वस्येव' चतुर्दश्यष्टम्युद्दिष्टापौर्णमासीलक्षणेषु दिनेषु 'निर्दिश' प्रकाशितोपदेशद्वारेण विधिवादेन श्रुतधरैरिति कर्तुरुप का रः, किं विशिष्टानां तेषां ? 'निजगृहव्यापारविप्रमुक्तान' प्राकृतत्वेन विशेषणपरनिपातनात् विप्रमुक्तनिजगृहव्यापाराणां विप्रमुक्ता इव निःशेषगृहभारस्य पुत्रादिषु नियुक्तत्वेन विप्रमुक्तास्त्यक्ता गृहव्यापाराः यैस्ते तेषां निजगृहव्यापारविमुखानां हि परग्रहव्यापारकरणं दुरापास्तमेवेति करणकारणाभ्यां सावद्ययोगविमुखत्वमिति भावः अयम्भावः - सावकाशानामुपासकानां यदि सर्वदा पौषधग्रहणं श्रुतधराणामिष्टं भवेत्तदा तैर्यथास्थानं प्रतिपन्नपौषधप्रतिमानां तेषां पौपधत्रतमपि नामग्राहं गृहीततिथिषु नोपदिष्टं भवेत्, उपदिष्टं तु पर्वतिथिष्येवेति, तथाहि - " से णं चा उद्दसमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसहं अणुपालेत्ता भवति" इति दशाश्रुतस्कन्थे, तथा “पोसहोववासनिरए” त्ति
खरतर जयसोमीया
118 11