SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ पचारभावा”दित्येव दर्शितं, विद्यासाधनोपचारस्तु कृष्णचतुर्दश्यामेव स्यान शुक्लचतुर्दश्यां तथैवा खिलजनमतीतेः, अत एव न शुक्लचतुर्दश्यां पाक्षिकत्वव्यपदेश इति, तथा चतुर्दश्यां मासमध्यत्वे पूर्णिमायां च मासपूर्तेरारभ्यैकस्मिन् पक्षे दिनचतुर्दशकमन्यत्र तत्षोडशकमित्यपि ध्येयं, तथा चतुर्दश्यां पाक्षिकस्य वास्तवत्वेऽतृभ्यां पक्षमध्यता कर्हिचिदपि न स्यात्, अमावास्यान्तत्वेऽष्टम्यां मध्यता स्यादेव, न च भवतोऽपि समानमेतदिति वाच्यं, अस्मदभिप्रायेण पाक्षिकपदं कृष्णचतुर्दश्यां विद्यासाधनोपचारार्थं सङ्केतितमिति नोक्तदोषवकाश इति, अपरं व्यवहारचूर्णिकाराभिप्रायेण "मासस्स मझं परिव्वयं किण्हपख्सस्स चउद्दसीए विज्जासाहणोवयारो" इत्युक्त्या अमावास्यायां पाक्षिकं स्यात्, कृष्णचतुर्दश्यां तूपचारः, स च पूर्वसेवा भण्यते, जीवानुशासनवृत्तौ (२० पत्रे ) श्रीदेवसूरिभिस्तथैव समर्थनात्, तथाहि - "पूज्यास्तु वदन्ति उपचारशब्देन पूर्व सेवाऽत्र भण्यते, ततः कृष्णचतुर्दश्यां पूर्व सेवा नूतनमन्त्रग्रहणजपलक्षणा क्रियते, पाक्षिके च पञ्चदशीलक्षणे परिपाटी:परावर्त्तनं विधीयते इत्थं व्याख्याने पञ्चदश्यपि पाक्षिकं स्यात्, परिपाटी च घटते, शुक्लचतुर्दश्यां तु पूर्वसेवा न क्रियते इति सर्वजनप्रतीतं, कृष्णचतुर्दश्यां च सस्फुरो मन्त्रो भवत्यतस्तत्र पूर्व सेवेति" तद्ग्रन्थलेशः तदेवमेवम्भूतबहुशास्त्रसम्मत्या पाक्षिकाणि पञ्चदश्यामेव सङ्गतानीति नीतिः, तथाचास्मत्परमगुरवः श्रीमदभयदेवाचार्याः “पख्खियचाउम्मासे, आलोयणा नियमसा उ दायचे "ति पञ्चदशपञ्चाशकसत्कदशमगाथैकदेशव्याख्यायां - "पक्षेऽर्धमासे भवं पाक्षिकं पर्व- पञ्चदशी चतुर्दशी वा, चतुर्षु मासेषु भवं चातुर्मासं पर्वैव " इति प्ररूपणात्पाक्षिकं चतुर्दश्यामाचरणया पञ्चदश्यां चागमाभिप्रायेणेति निजगदुरितरथा तैस्तथोद्दिष्टं न भवेत्, युगपद्दिनद्वय्यां पाक्षिकवासङ्गतेः, एतदाकृतनिश्चयस्तु श्रीमज्जिनवल्लभसूरि विरचित द्वादश कुलकवृत्तौ (१७ पत्रे ) “ तदणु गउच्चिय मग्गो" इति द्वादशगाथा व्याख्यायां “तत्र यदुक्तं कुग्रहस्वरूपाभिधानप्रस्तावे यदुत 'पौर्णमास्यामेव पाक्षिकादिप्रतिक्रमण' मिति, तद् यद्यागमोक्तत्वेनाभिधीयते तदा पर्युषणापर्वाऽपि पञ्चम्यामेव विधेयं
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy