________________
खरतर जयसोमीया
पौषध
"अंतो पख्खस्स"इति पाक्षिकसूत्रे, तवृत्तिः "अन्तर्मध्ये 'पक्षस्य चन्द्राभिधानामासस्य मध्ये यत्किञ्चिद्वाचित" इत्यादि, अत्रापि प्रिंशिका ।
चन्द्रमासस्यार्दै पाक्षिकमुक्तं, चन्द्रमासस्तु पूर्णमास्यामेव स्यात्, यदुक्तं श्रीव्यवहारभाष्ये (प्रथमोद्देशके ६ पत्रे) “नख्खत्ते चंदे य उउ य, ॥८॥ आइच्चे य होइ बोधल्वे । अभिवट्टिए य एत्तो, पंचविधो कालमासो उ ।। 'चंदेय'त्ति चन्द्रेण भवश्चान्द्र, युगादौ श्रावणे मासे बहुलपक्ष
प्रतिपद आरभ्य यावत्पूर्णमासी परिसमाप्तिस्तावत्कालप्रमाणश्चान्द्रो मासः, एकपूर्णमासीपरावर्त्तमानश्चान्द्रो मासः" इति तद्वत्येकदेशः, तथा चन्द्रमासार्दै पञ्चदश्यामेव, तथा “पञ्चदश्यौ यज्ञकालौ, पक्षान्तौ पर्वणी अपि” तथा “पूर्णिमा पौर्णमासी सा"इत्यादि हेमाचार्यवाक्याच, ननु "पख्खस्स अट्ठमी खलु, मासस्स य परिख मुणेयई । इतिव्यवहारभाष्य(पष्टोद्देशक)व्याख्याने (४५ पत्रे) "अर्द्धमासस्यपक्षस्य मध्य-अष्टमी, सा खलु पर्व, मासस्य मध्य-पक्षेण निर्वृत्तं पाक्षिकं, तच्च कृष्णचतुर्दशीरूपमवसातव्यं. तत्र प्रायो विद्यासाधनोपचारभावात्" इति श्रीमलयगिरिगिरासाक्षात्पाक्षिकत्व चतुर्दश्यामायातमेवेति चेन्न, अवसरानभिज्ञानात् , तथाहि-“विज्जाणं परिवाडी, पल्वे पत्वे य दंति आयरिया । मासऽद्धमासियाणं, पचं पुण होइ मज्झं तु ।२५१॥" इत्यनन्तरलिखितव्यवहारभाष्यगाथाप्रामाण्यात् आचार्याणां देवताधिष्ठितमन्त्रपरावर्तनकरणाधिकार एवात्रावगन्तव्यो, न प्रतिक्रमणादिपाक्षिककृत्यकरणावसरः, तथात्वे कृष्णचतुर्दश्यामेव मासमध्यत्वात्पाक्षिकत्वं | स्यान्न शुक्लचतुर्दश्यां, तत्र मासपर्यवसानत्वेन मासमध्याभावात् , तन्मध्यस्यैव पाक्षिकत्वेनाख्यानात , दृश्यते च सर्वगच्छेषु शुक्लचतुर्दश्यामपि तथा व्यवहारस्तेनाङ्गीकुरु पाक्षिकपदमत्राचार्याणां मन्त्रपरावर्तनमात्रकृत्यनिवेदकं, परिहर वा शुक्लचतुर्दश्यां पाक्षिकत्वाभिसन्धिमिति लाभ| मिच्छतो मूलक्षतिरायातेति ध्येय, 'पक्षेण निर्वृत्तं पाक्षिक मिति व्युपत्याऽत्र चतुर्दश्यां पाक्षिकं न भवेदेव, किन्त्वमावास्यां, परं "तच्च कृष्णचतुर्दशीरूपमवसातव्य"मिति वाक्येन वृत्तिकृता कृष्णचर्दश्यामेव पाक्षिकपदमत्रोपचरितं द्रष्टव्यं, तन्मूलन्तु "तत्र प्रायो विद्यासाधनो
॥८
॥