________________
एतद्गाथाया मूलतया कल्पितेष्वपि तीर्थोद्गारादिष्वदर्शनात् , नहि निर्मूलमालम्बनं समालम्ब्य पाठान्तरकरणसमुद्यतो न हास्यास्पदं, न च जिनप्रभाचारप्येषा समालम्बिता इति वाच्यं, तत्पूर्ववत्तिकल्पविषमपदनिरुक्तकृद्विनयेन्दुसूरिकृतं "वायणंतरे पुण नवसयतेणउएणं" इत्येतत्पदव्याख्यानमुपजीव्य तैस्तत्पदव्याख्याने तथैव "तेणउयणवसएहि" इत्यादिगाथाकदम्बकस्य लिखितत्वात् , नहि निरुक्तकारेण तद्ग्रन्थेष्वेताः गाथाः उपलब्धा भविष्यन्तीति वाच्यं, तथा सति तत्पूर्वकालवर्तिभिर्गीतार्थः श्रीदेवसूरिभिश्चतुःषष्ट्यधिकैकादशशतवर्ष विहितजीवानुशासनवृत्तौ पञ्चदश्यां पाक्षिकाणि पूर्वोद्दिष्टनीत्या नोद्दिष्टानि भवेयुः, ततः श्रीहेमाचार्यगुरुभिः स्थानाख्यग्रन्थकारैरपि किञ्चिसमधिकैकादशशतवर्षवर्तिभिः स्वग्रन्थे तथैव पाठो ग्रथितो, न दूष्यश्चाय, तेषामपि तत्समयवतिसर्वस्वसमयदर्शिखात् , नह्येतस्य तदद्रष्टत्वेऽपि निरुक्तकारस्य तद्दष्टत्वं भविष्यतीति वाच्यं, तथा सति तदुक्त तेणउयनवसरहि,समइकतेहि वद्धमाणाओ। पज्जोसवणचउत्थी, कालगसूरिहिं | तो ठविया ॥"इति गाथां "वायणंतरे पुण नवसयतेण उएणं इइ दीसइ"इति कल्पाध्ययनसत्कपदव्याख्यानव्यतिकरे कल्पकिरणावल्यां | निशीथचूर्णिनिदर्शनदर्शनेन किमिति तत्कर्ता निषेधितवान् ?, एतद्गाथायाः दुष्टत्वे विनयेन्दुस्रेस्तद्दृष्टतीर्थोद्गारादेरपि स्वमुखेनैव दुष्टत्वं स्पष्टीकृतमिति समायातोऽयमितो दुस्तटीतो व्याघ्र' इति न्यायः, तस्मात्यज तद्गाथानां तद्ग्रन्थेषु तेषां दर्शित्वं त्यज वा "नवसयतेणउएण" इति गाथायां दुष्टखाभिसन्धिमिति प्रतिबन्दी, न च भवतोऽपि "सालाहणेण रप्णा"इति गाथाया अनङ्गीकारेण "नवसयतेणउएणं" इति गाथोक्ताङ्गीकारेण च समानेयं प्रतिबन्दीति वाच्यं, नास्माभिः “सालाहणेणे"ति गाथा सर्वतो निषिध्यते, किन्तु नहि निर्मूलमायया गाथया पाठान्तरकरणं युक्तमित्युक्तं, एतन्मूलन्तु "विक्रमार्कात्सपञ्चाशच्छतत्रयीमितवर्षे चतुर्दशीपक्षो बभूवे”ति केषुचिज्जूर्णपट्टावलीपत्रेघृपलभ्यते, ततश्चैता गाथाः केनचित्तत्पक्षीयेण गीतार्थेन कृता इति विभाव्यते, "चउमासगपडिक्कमणं पख्खियदियहमी"ति वाक्येन साकं