________________
पौषध
खरतर जयसोमीया
पत्रिशिका
आयरियाणि, अन्नहा आगमुत्ताणि पुण्णिमाए-त्ति ठाणावृत्तौ श्रीदेवचन्द्रसूरिकृतायां, इह व्यवहारचूर्णादौ चतुर्दश्याः साक्षात्पाक्षिकत्वे | दृश्यमाने पूर्णिमायाश्च काप्यागमे साक्षाददृश्यमानेऽपि ग्रन्थकृता 'आगमोक्तानि पूर्णिमाया मिति यदुक्तं तन्न ज्ञायते केनाभिप्रायेण साम्पदायेन वेति, परमेतस्मिन्नपि ग्रन्थे चतुर्थीपर्ववत् आचरितलक्षणोपेतत्वात् चतुर्दश्यां पाक्षिकादीनि प्रमाणीकृतान्येव सन्तीति पाक्षिक विचारः" विचारामृत(संग्रह)ग्रन्थे श्रीकुलमण्डनाचार्यकृते । नन्वेवं सर्वपञ्चदशीनामुच्छिन्नाधिकाराधिकारिणामिवानाराध्यत्वमेवायातमिति चेन्न, तामु पाक्षिककृत्यापसारणेऽपि पर्वत्वाक्षितेः, न च भाद्रपदविशदपञ्चम्यामपि पर्वत्वापत्तिरिति वाच्यं, कालिकाचार्यादर्वाचीनश्रुतधरैरपि "अमिपन्नरसीसु य, नियमेण हविज्ज पोसहिओ” इत्याधुक्तवाक्यैः सर्वपञ्चदशीनामाराध्यत्वेनाभिधानात् , भाद्रपदविशदपञ्चम्यास्तु पर्वत्वेनानभिधानाच्च नोक्तदोषावकाशः, चातुर्मासकपञ्चदशीनामनाराध्यत्वप्रसङ्गस्य भवतोऽपि समत्वादिति मृग्यं, "आग| मुत्ताणि पुण्णिमाए"इत्यत्र अमावास्योपलक्षणं द्रष्टव्यं, यतः "ता कहं ते !" इत्यादि सूत्र, 'ता' इति पूर्ववत् 'क' ? केनप्रकारेण केन | नक्षत्रेण परिसमाप्यमाना इत्यर्थः, पौर्णमास्यः आख्याताः, अत्र पौर्णमासीग्रहणं अमावास्योपलक्षणं, तेन कथममावास्या आख्याता इति वदेत्" इति सूर्यप्रज्ञप्तिवृत्तौ दशमप्राभृतसत्कषष्ठप्राभृतप्राभृतेऽपि (११२ पत्रे) तथोक्तेः, तथैतद्ग्रन्थबोधितार्थसंवादो ग्रन्थान्तरादप्यवसेयः, तद्यथा-"पूज्या इहा(अत्रा)र्थे वदन्ति-यदा सांवत्सरिकं पञ्चम्यामासीत्तदा पाक्षिकाणि पञ्चदश्यां सर्वाण्यभूवन्" इति जीवानुशासनवृत्तौ पूर्वाचार्यकृतायां (२१ पृष्ठे), न चायं ग्रन्थकर्ता देवमूरिः पौर्णमिक इति वाच्यं, तवैव ग्रन्थे "साम्पतं चतुर्थ्यां पर्युषणा ततश्चतुर्दश्यां पाक्षिकाणि घटन्ते” इति वाक्याच्चतुर्दश्यामेवैतस्य पाक्षिककर्तृत्वाभ्युपगमात् , न च "सालाहणेण रण्णा, संघाएसेण कारिओ भयवं । पज्जोसवणचउत्थिं, चाउम्मासं चउद्दसिए।१।" इति तीर्थोद्गारादिग्रन्थप्रसिद्धगाथासम्मत्या अन्यः पाठः सम्यगाभातीति वाच्यं,
पञ्चम्यास्तु पर्वत्वेनानाभा या, नियमेण हविज पोसहिओ दावशदपञ्चम्यामपि पर्वत्यापत्तिरित
गत वदेत" इति सूर्यप्रज्ञप्तिसत्तौ दशमावदान्त-यदा सांवत्सरिकं पञ्चम्यामानावाच्य, तत्रैव ग्रन्थे “साम्प