SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आह-आससेनः-सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु । अष्टम्यां पञ्चदश्यां च, नियतं पौषधं वसेत् ॥” इति श्रीशाल्याचार्यक्रतोत्तराध्ययनसत्कनवमाध्ययनबृहद्वृत्ति (पत्र ३१५) बचनेन चैतयोः पौषधनतनियतत्वं ध्येय, न च काप्यागमे द्वितीयापञ्चम्येकादशीष पौषधव्रताङ्गीकारः श्रूयते, प्रसिद्धिस्त्वेतासां प्रत्याख्यानादिकृत्यविशेषमधिकृत्य बोध्या, तद्यथा-द्वितीय काश्योः प्रसिद्धिःप्रवाहात, पञ्चम्यास्तु "संते बलविरियपरिसकारपरक्कमे अमिचउद्दसीनाणपंचमीपज्जोसवणाचाउम्मासिएसु चउत्थछट्टऽहमे न करेज्जा पच्छित्त"मिति महानिशीथश्रुतवाक्यात्मसिद्धिः, यत्तु कैश्चित्पश्चकपक्रमे निशीथचूर्ण्यभिप्रायेण पञ्चम्याः पर्वत्वमिष्यते तदसाधुः, तदभिप्रायेण "पवस पज्जोसवियां, नो अपवेमु” इति वचनात् द्वितीयैकादशीचतुर्दशीनामपर्वखमप्यादेयं स्यात् , तस्माद्यथाकथश्चित्मसिद्धत्वेऽपि द्वितीयादितिथिषु कल्याणकाद्युत्सवविशेषानाक्रान्तासु न पौषधं समुपादेयं इत्यायातं, तदियता रत्नशेखरसूरिकृतप्रतिक्रमणसूत्रवृत्ती केषुचिन्नव्यादर्शषु(मुद्रिते १६५ पत्रे) केनचिदाधुनिकेन "अहमिचउद्दसीसु य, नियमेण हविज्ज पोसहिओ" इत्यावश्यकचूर्णिपाठो निहितोऽस्ति स निरस्तो द्रष्टव्यः, 'तथे ति पुनरपि तयोः प्रसिद्धत्वे हेत्वन्तरमाह-एयासु'त्ति “बहुवयणेण दुवयण"मिति प्राकृतशेल्या एतयो:-पूर्णिमाऽमावास्ययोः 'शास्त्रे गीतार्थजन निर्मितग्रन्थे 'आगमोक्तं' सिद्धान्तप्रतिपादित पाक्षिकं' भावप्रधाननिर्देशात्पाक्षिकत्वं वर्णितं'प्ररूपितमित्यर्थः, तथाहि-"एवं च कारणेण कालगायरिएहि चउत्थीए पज्जोसवर्ण पवत्तियं, समत्तसंघेण य अणुमन्नियं, तबसेण य पख्खियाईणि वि चउद्दसीए आयरियाणि, अण्णहा आगमुत्ताणि पुण्णिमाए" इति श्रीदेवचन्द्रमरिकृतायां श्रीठाणावृत्ती, नचात्र त्रिंशदधिकषोडशशतवत्सरीयः पत्तनोपपुरकुंणगिरिस्थदर्शनबाह्यपरिकल्पितः “चाउम्मासियाणि चउद्दसीए आयरियाणी”ति पाठः समाश्रयणीयः, तत्पूर्वजेनापि पूर्वपाठस्यैव समर्थनात , तथाहि “एवं कारणेण कालगायरिएहिं चउत्थीए पज्जोसवर्ण पवत्तियं, समत्तसंघेण य अणुमन्नियं, तवसेण य पख्खियाईणि वि चउहसीए
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy