________________
5
आभाण
शतकम्
॥१३॥
करण्डिकाढतो भानुश्छादितः किं कचिद्भवेत् । तथा परोक्तयुक्त्या किं, छादितः स्याजिनागमः ? ॥७९॥ पानीयं को निबध्नीयात, ग्रन्थौ वस्त्रेण कोविदः । तथा शास्त्रेषु सर्वेषु, संपूर्ण जिनभाषितम् ॥८॥ यथा कुठारघातेन, धीतं वस्त्रं न चार्थकृत् । तथा स्वहठवादेन, दूषितं जिनभाषितम् ॥८१॥ कुधियां वधिराणां च, सभासु भगवद्वचः । व्याख्यातं निष्फलं ज्ञेयमरण्ये गीतगानवत् ॥८२॥ बालास्तु तक्रपानं जानन्ति विलोडनं न दनश्च । तद्वन्मूढाः सूत्रं जानन्ति न सूत्रपरमार्थम् ॥८३॥ युगेऽस्मिन् केवलज्ञानवर्जिते वरमल्पचित् । राणकः काणको यद्वचक्षुर्विकलपर्षदि ॥८४॥ करणे कथने भिन्ना, आदेशाः परवादिनाम् । दर्शने भक्षणे यद्दन्तिदन्ताः पृथक् पृथग् ॥८५॥ उत्सूत्रभाषणं पूर्व, पुनः क्रोधेन मिश्रितम् । सर्वथा परिहर्त्तव्यं, लशुनं हिगुसंस्कृतम् ॥८६॥ तृणैराच्छादितो वहिरवश्यं प्रकटीभवेत् । माययाऽऽच्छादितं तद्वदुत्सूत्रं मनसि स्थितम् ॥८॥ मधुरवचनेन युक्तं सर्व हितमेव वेचि न त्वहितम् । सकलं धवलं दुग्धं पश्यति बालस्तु नो तक्रम् ।।८८॥ सहसाविहिते कार्ये, पृच्छया किं विवेकिनाम् ? । विवाहे विहिते लग्नपृच्छया कि प्रयोजनम् ? ॥८९॥ यथोप्तमूषरे क्षेत्रे, धान्यं धान्यधनेच्छया । धर्मबुद्धया तथा दानं, कुपात्रे निष्पयोजनम् ॥१०॥
555A4*
॥१३॥