________________
PARANORAKAR
मुनयो यदि कुर्वन्ति, मार्गलोपं यथा तथा । वृत्तिश्विर्भटिकानत्ति, पुरतः कस्य कथ्यते ? ॥६॥ चारित्रं पृष्ठतः कृत्वा, लज्जया मोक्षकामना । पात्रं तु पृष्ठतः कृत्वा, तक्रार्थ गमनं तथा ॥६६॥ मरौ सुरतरुमाप्तिारिये निधिदर्शनम् । कली च बोधिबीजाप्तिर्दुर्भिक्षे पायसाशनम् ॥६९।। सिद्धान्तवाचनं पूर्व, व्याख्याता यत्र पण्डितः । तस्योपमानमास्थेयं, शर्करा दुग्धमिश्रिता ॥७॥ सिद्धान्तवाचनं टीका, विना चारुतरं नहि । तस्योपमानं जानीहि, बालकाङ्गुष्ठधावनम् ॥७॥ कुग्रहग्रहदुष्टस्य, सिद्धान्तश्रावणं तथा । अन्धस्य पुरतो दीपप्रदीपकरणं यथा ॥७२॥ अगोपाङ्गादयो ग्रन्था, द्वादशाङ्ग्यां प्रतिष्ठिताः । गवादीना यथा पादा, हस्तिपादे यहत्तरे ॥७३॥ यत्र नारं तत्र पङ्को, यथाऽस्ति कमलाकरे । अपवादोऽपि तत्र स्ति, यत्रोत्सर्गः प्रवर्तते ॥७४॥ स्वयं यः सुमतिः पूर्व, परं सिद्धान्तपारगः । नर्तकः किङ्किणीयुक्तचरणः शोभते यथा ॥७॥ उत्सूत्रभाषकः सूत्रभाषकं बाधते तथा । विपरीतपथः प्रायस्तस्करः पुररक्षकम् ।।७६॥ छेदग्रन्थार्थविस्तारो, न तिष्ठति हृदन्तरे । तुच्छसचवतां यद्वत्पायसं कुकुरोदरे ॥७७॥ अभव्यदूरभव्यानां, चेतः स्पृशति नागमः । स्निग्धं घटं यथा तोयपूरस्तोयदसंभवः ॥७॥