SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आमाण शतकम् ॥१२॥ था कृतेन यथाऽपूएकरणं नहि संमतम् । विना भावेन वेषस्य, धरणं तद्वदेव हि ॥५५॥ सूपपूपे यथाऽऽरब्धे, तैलपानस्पृहा पुरा । दीक्षायां गृह्यमाणायां, विशिष्या विषयस्पृहा ॥५६॥ भावहीने क्रिया पुसि, पुण्यहीने सुखस्पृहा । चन्द्रज्योत्स्ना दिने यद्वच्चूडा मुण्डितमस्तके ॥५७॥ कषायविषयैर्येन, संयमः शिथिलीकृतः । तेन मुक्ताफलं विद्धं, स्थूलेन मुशलेन किम् ? ॥५८॥ ऐहिकं समतासौख्यं, त्यक्त्वा कः पारलौकिकम् । कटिस्थं तनुजं यद्वदुदरस्थं समीहते ॥५९॥ साधुत्वं येन संपाप्य, निन्द्याचारः कृतः स्वयम् । धूलिक्षेपः स्वहस्तेन, हस्तिनेव स्वमस्तके ॥६॥ यत्र पद्मं तत्र हंसा, वसन्ति मुदिताशयाः। तथैव यत्र कल्याणं, तत्र तिष्ठन्ति साधवः ॥६॥ कर्मवैरिविनाशाय, यतते यतिपुङ्गवः। ज्ञानवान् तपसा शूरः, सिंहः सन्नाहसंयुतः ॥६२॥ कामं शरीरसत्कारो, न्यत्कारः शिववर्मनाम् (शर्मणाम्)। विहितो यतिना तेन, सुप्तः सिंहः प्रबोधितः ॥६३॥ स्वयंपठनशीलानां, शिष्याणां प्रेरणं तथा । यथा स्वयंसुजात्यानां, भारमुदहतां गवाम् ॥६४॥ मुमुक्षूणां हिरण्यादिरक्षणं विषभक्षणम् । न शोभते यथाऽतीवजीर्णगोर्गलघण्टिका ॥६५॥ सम्यग्गृहीते चारित्रे, लज्जायाः करणं तथा । नृत्ये नव्याः प्रवृत्ताया, वदनाच्छादनं यथा ॥६६॥ SHRS5555555
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy