SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तीर्थयात्राकरः सवपतिर्भवति भूतले । ततः सत्यमिदं जज्ञे, यतो धर्मस्ततो जयः ॥ १९॥ दया सर्वजनाभीष्टोपदिष्टा च जिनैर्यथा । इष्टं वैद्योपदिष्टं च, पयःपानं सशर्करम् ॥ २० ॥ गता तिथिर्यथा पूर्व, ब्रामणेन च वाच्यते । तथा पुराकृतं पापं, धार्मीभर्नानुमन्यते ॥ २१ ॥ यथा पानीयमार्गेण, पानीयं याति सत्वरम् । तथा स्वभावतो धीरा, उत्तमा उत्तमाध्वना ॥ २२ ॥ पानीयस्य गतिन चैरुच्चैर्गतिरुपायतः । तथा पापस्वभावस्योपदेशात्सद्गतिर्भवेत् ॥ २३ ॥ रपादानादिकं धर्म, जिनोक्तमपरे तथा । दूरतो दृष्टिवार्चा हि, वदन्ति पथिका यथा ॥ २४ ॥ परम्परागतं धर्म, विना सर्व न शोभते । कलाकलापकलितं, केकिनृत्यं तं यथा ॥ २५ ॥ क्रमागतं गणं मुक्त्वा, मूढा यान्ति गणान्तरम् । परवलं दर्दुरा यद्विहाय सरितांपतिम् ॥ २६ ।। स्वकीयाशुद्धधर्मस्य, मिथ्यात्वं वक्ति को जनः ? । दुष्टायाः को निजाम्बायाः, शाकिनीत्वं प्रकाशयेत् ॥ २७ ॥ बहुरक्षितबहुशिक्षितनीचजनो भजति नैव सन्मार्गम् । पुच्छमिव शुनो नलिकाधृतमपि सरलं यथा न स्यात् ॥२८॥ शानदर्शनचारित्राशातना बहुधा कृतौ । मिथ्यादुष्कृतदानं तत्समुद्रे सक्तुमुष्टिवत् ॥ २९ ॥ परस्त्रीरमणासक्तः, परद्रव्यापहारकः । संयाति निधनं प्रायो, यतः पापस्ततः क्षयः ॥ ३०॥ 45555555 -
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy