________________
आभाण
शतकम्
॥११॥
स याति वचनीयत्वं, पापी पापेन पच्यते । मुख्यमार्ग परित्यज्य, स्वमार्ग कुरते यकः ॥ ३१ ॥ स्वयं पापी परं निन्दन् , कथं शुद्धा भविष्यति ? । यथा काकः स्वयं कृष्णो, नीलीकुण्डे वसन् सदा ॥ ३२ ॥ यत्र तत्र गतो जन्तुः, पीडामामोति पापवान् । कर्पास इव सर्वत्र, मध्यग्रन्थिकदर्थितः ॥ ३३॥ दुग्धधौतोऽपि किं काको, राजहंसत्वमाप्नुयात् ? । तपःकृशस्तथा मिथ्याग् नो सुगतिभाग् भवेत् ॥ ३४ ॥ मेधाविवर्जितः पूर्व, मानेन च कदर्थितः । अतीव चपलो यद्वानरो वृश्चिकाशितः ॥ ३५॥ पूर्व जातिविहीनस्तदनु क्रोधान्धतां च संप्राप्तः । उष्ट्र इवावकरस्थो नीचो नालोकितः केन ? ॥ ३६॥ ये वदन्ति दयाधर्म, हिंसाधर्म स्वशास्त्रतः । तेषां स्वमातृवन्ध्यात्ववाक्यवद् वचनं वृथा ॥ ३७॥ भूपतिः कुरुतेऽनीति, प्रजायाः का गतिस्तदा ? । आचार्यः कुरुतेऽकार्य, तदा शिष्यस्य का गतिः ॥३८॥ आराधितः शिवाय स्यात् , भवाय च विराधितः । श्रीजिनस्तेन सत्योक्ती, राजा मित्रं न कस्यचित् ॥ ३९ ॥ तपोभरे कृते नैव, सिद्धिरज्ञानिनां भवेत् । नवनीतस्य संमाप्तिरन्धेन दधिघोलने ॥ ४०॥ औषधेन विना व्याधिनतो भाग्यानुभावतः । कुपुत्रस्तु विनाऽऽयासं, यथा यातो गृहादहिः ॥ ४१॥ . सूर्य प्रति रजः क्षिप्त, स्वचापि पतिष्यति । गुरुं प्रति कृताऽवज्ञा, सा तथा तस्य भाविनी ॥ ४२ ॥
॥११॥