SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आभाण ॥ १० ॥ धर्मं बिना मन्त्रतन्त्रयन्त्रौषधनिषेवणम् । सुधीभिर्मनसा ध्येयं, सर्व जलविलोडनम् ॥ ७ ॥ धर्मोपदेशसमये, धर्मं न शृणोति यथ निद्राति । स्वर्णनिधिलब्धिसमये, चक्षुर्विकलत्वमाप्रोति ॥ ८ ॥ जिनधर्म सुधास्वादं, परित्यज्य सुखावहम् । गृह्णन्ति ते विषं मिथ्यावादं निर्भाग्यशेखराः ॥ ९ ॥ जैनं मतं परित्यज्य, गृहीतं परशासनम् । अन्धकारं कृतं तेन, निमील्य नयने निजे ॥ १० ॥ धर्मोपदेशे दाने च श्रमो वित्तव्ययोऽपि च । निन्यो न केनचिद्दन्तपातः कर्पूरभक्षणे ॥ ११ ॥ श्रीजैनशासने सम्यग्गुणगौरवसज्जित । तत्र यदूषणाख्यानं, दुग्धे पूरककर्षणम् ॥ १२ ॥ प्रमत्तस्यातिमत्तस्य, चित्ते नो धर्मवासना । निर्भाग्यस्य यथा प्रायो, गृहे तिष्ठति नो निधिः ॥ १३ ॥ जीवितान्ते च संप्राप्ते, धर्मकर्ममनोरथः । सरसीव विशाले स्यात्सेतुबन्धो गतोदके ॥ १४ ॥ पुण्याधिकैः सह स्पर्धा, पुण्यहीनस्य किं भवेत् ? । इक्षवो भक्षणीयाः स्युरिभैः सह यथा नरैः ॥ १५ ॥ रन्ध्रेण सहिते कुम्भे, यथा नीरं न तिष्ठति । पापेन मलिने पुंसि, तथा सद्धर्मवासना ॥ १६ ॥ पृथिव्यां रत्नबाहुल्ये, प्राप्तिः पुण्यानुसारिणी । जलधौ जलबाहुल्ये, प्राप्तिः पात्रानुसारिणी ॥ १७ ॥ देवगुर्वादिसामग्र्यां यः प्रमादपरायणः । नीरेण भरितेऽभ्यर्णे, तटाके तृषितः स्थितः ।। १८ ।। - 99% शतक ॥ १० ॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy