________________
श्री गणधरेन्द्राय नमः श्रीमद्धनविजयगणिविरचितम् आभाणशतकम्.
5+5+5+5+5+5+5+5+5+4+43
प्रणम्य गुरुपादाब्जं, स्मृत्वा च श्रुतदेवताम् । आमाणकानि वक्ष्यन्ते, पुण्यहेतूनि हेतुभिः ॥१॥ सर्वजनपूजनीयो, जिनधर्मरतो जनः सुकुलजातः । स्वर्ण सहजसुगन्धं, नादेयं कस्य लोके स्यात् ? ॥२॥ चराचराणां सर्वेषां, प्राणिनां प्रीतिकारणम् । तुष्टिपुष्टिकरः श्रेष्ठो, जिनधर्मो गुडो यथा ॥ ३ ॥ विधिनाऽऽराधितो जैनधर्मः शर्मकरो यथा । शङ्खः प्रदक्षिणावर्चः, पयसा भूयसा भृतः ॥ ४॥ जिनधर्मफलाकाङ्क्षा, पूर्यते नान्यशासनैः । सहकारफलाकाङ्क्षा, सा यथा नाम्लिकाफलैः ॥५॥ ज्ञानदर्शनचारित्रसम्यग्भावित मानसः । शीरखण्डाघृतास्वादादधिकं लभते सुखम् ॥ ६॥