________________
॥ अथ तपोऽष्टकम् १२ ॥
अशन प्राय यहरे स्थाल्यां तन्नास्ति कर्म च। चेष्टा दुःस्निग्ध यद्येता, एतत् तापसमष्टकम् ॥१॥ अशनमखिलैर्मुक्तं दोषैत्रिकोटिविशोधितं, सुकृतनिरतो भुञ्जानोऽपि क्षमाभूदुपोषितः । तदपि मनसः शुद्धहेतोरुपोषितमिष्यते, सति निजबले तीर्थस्यापि | प्रभावनहेतवे ॥ २ ॥ अशनविरहो न्यानोदर्य स्वदृचिविभागता, रसपरिहृतिः कायक्लेशः सदा निभृताङ्गता । य इति विमलं धत्ते बाह्यं तपः शुभसंयम, न भवति भवाम्भोधौ प्राणी स कर्मपरिक्षयात् ॥ ३ ॥ प्रायश्चित्तं विनयसहितं व्यावृतिः कृत्यजाते, सस्वाध्याया शमसुखरसादयानमार्गप्रवृत्तिः । व्युत्सर्गोऽपि प्रहतकुगतिः सर्वसावद्यजाते, कार्य प्रोक्तं तप इदमथाभ्यन्तरं मुक्तिहेतोः | यहरे यदुराराध्यं, यच्च दूरतरस्थितम् । तत्सर्वं तपसः साध्यं, तपो हि दुरतिक्रमम् ॥ ५॥ स्थाल्यां वैडूर्यमय्यां पचति तिलखलं ४ चान्दनेनानलेन, सौवर्गलाङ्गलांविलिखति वसुधामर्कतूलस्य हेतोः । छित्त्वा कर्पूरखण्डं वृतिमिह कुरते कोदवाणां समन्तादायातः कर्मभूमौ न चरति विपुलं यस्तपो मन्दभाग्यः ॥ ६॥ तन्नास्ति वस्तु भुवने, तपसा यन्न सिध्यति । अथवा निष्फलो दृष्टः,
कापि किं कल्पपादपः ॥ ७ ॥ कारण्यदवानलोऽभिलषिते सत्कामधेनूपमं, दुष्टारिष्ठविनाशनं गुणकरं सौभाग्यसंवर्द्धनम् । | श्रीमन्मुक्तिनरेशशुद्धपदवीसम्पादने प्रत्यलं, शान्तं कान्तमसङ्गमाचर तपः शत्तया जिनेन्द्रोदितम् ॥ ८ ॥ चेष्टां दुर्गतिकारिणी विधुनुते वाकायचित्ताश्रय, वैराग्यं भवसंततिक्षयकरं पुष्णाति तत्त्वे रतिम् । जीवं कारयति श्रुतं जनयति क्रोधादि उन्मूलयेनान्य