________________
SCORRECENCES
सत्त्वावलम्बी, धर्मस्तेषां किमेभिर्वहभिरपि वृथाऽऽलम्बनैर्वान्धवायैः ॥ ७ ॥ न राज्ञामाज्ञान प्रभवति परत्र प्रकृतितो, न पुत्रो मित्रं वा भवात.न कलत्रं न सुजनः । न पचिर्वि वा बहुभिरथवा किं मलपितैः १, सहायः संसारे भवति जिनधर्मः परामह ॥ ८॥ वपुषि पुलको नेत्रे पीते न बाल्पपयःकणा, गणकसरणो नैवोच्छ्वासो न गद्गदिका स्फुटम् । हृदि न सहमा जातो हर्षः । कुमार्गविबाधकः, श्रुतमपि गुणं कुर्यात्तेषां कथं जिनशासनम् ? ॥ ९ ॥ भवति सुभगमूर्तिः खेचरचक्रवर्ती, धनपतिरवनीशो वासुदेवो विपश्चित् । किमिह बहुभिरुक्तैर्लभ्यते सर्वमेतन्निरवधिभववादझै दुर्लभो जैनधर्मः ॥ १०॥ अहितनियामितानां रोगशोकार्दिताना, त्रिजगदवमतानां सर्वदा दुःखितानाम् । यदि न भवति धर्मस्तेषु माभीमदाता, क इह वसति तेषां यः परित्रां करोति ? ॥ ११ ॥
औदार्य दाक्षिण्यं पापजुगुप्सा जितेन्द्रियत्वं च (ऽथ निर्मलो बोध:)। लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥१२॥ सत्त्वोपकारादपरो न कश्चिदत्रास्ति धर्मों भुवनत्रयेऽपि । वचास्ति सद्धर्महितोपदेशदानाधिकः कश्चिदिहोपकारः ॥ १३ ॥ यदिह भुवने साध्यं न | स्यात् कदाचन पौरुषैर्यदपि जातो दूराद् दूरं न निसदृशोः स्फुटम् । तदखिलमसौ सत्त्वाहिंसाप्रधानगुणार्जितो, घटयति सतां धर्मः सर्व यदस्ति च दुर्घटम् ॥ १४ ॥ धर्मस्यापि तथा भवन्ति बहवो मार्गा विभित्रक्रिया, लोकस्तष्कविवेकमोहिवमतिः कुत्रापि कोऽपि स्थितः । तत्वज्ञेन पुनर्विचार्य निपुणं प्रक्षीणपापाश्रये, सत्त्वानामभयप्रदे शुभनिधौ धर्मे विधेया मतिः ॥ १५ ॥ धर्मः णिदया सत्यं, शौचं ब्रह्म वितृष्णता । वैराग्यं ज्ञानदानं च, जिने भक्तिर्गुरौ नतिः ॥१६॥ धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसंपत्तयः । कान्ताराच महाभयाच सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति च स्वर्गा