SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ मजण्या विधान ॥ ४॥ ॥ ३ ॥ भो भन्या भवभीमसागर गतैर्मानुष्यदेशादिका, सामग्री न सुखेन लभ्यत इति प्रायः प्रतीतं सताम् । तद्युष्माभिरिमां पुरातनशुभैरासाद्य सद्योऽनघां, सर्वज्ञमतिपादिते प्रतिदिनं धर्मे विधेयं मनः ॥ ४ ॥ प्राप्तमिह मानुषत्वं लब्ध्वा सद्गुरुसुसाधुसामग्रीम् । तदपि न करोषि धर्म्म, जीवक! ननु वन्ध्यसे प्रकटम् ॥ ५ ॥ रागाम्भः प्रमादव्यसनशतच लद्दीर्घ कल्लोलकोड: (लोलः), क्रोधेवाडवाग्निर्जननमृतिमहानऋचौधरौद्रः । तृष्णापातालकुम्भी भवजलधिरयं तीर्यते येन तूर्णं, धर्मोऽसौ यानपात्रं जिनपतिगदितः सर्वदा संविधेयः || ६ || सुमानुषत्वं पटुतेन्द्रियाणां जैनी श्रुतिस्तत्र रतिश्च सम्यक् । अनुष्ठितौ शक्तिरपापपुंसां, सेवेति धर्मस्य निदानमेतत् ||७|| कर्तुः स्वयं कारयितुः परेण, तुष्टेन चित्तेन तथाऽनुमन्तुः । साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति ॥ ८ ॥ उत्पत्तिः सत्कुलादौ प्रकृतिकरणया व्याकुला चित्तवृत्तिर्व्यावृत्तिः पापयोगात्तदनु गुणकरः साधुसंगानुरागः । संसारारण्यभीतिर्गुरुशरणतया कर्मनिर्मूलनेच्छा, प्राग्जन्मोपा पुण्यैरिति भवति नृणां सर्वसामग्रीकेयम् ॥ ९ ॥ दुष्प्रापं मानुषत्वं जिनवरवचनं प्राप्य पुण्यानुभावा-दायुस्ता रुण्यबन्धुद्रविण कणसुखान्यस्थिराणीह मत्वा । धर्मे यत्नो विधेयः प्रतिदिवसमहो सर्वकल्याणहेतौ, संसारापारदुःखप्रतिइतिविधये धीधनैः सन्मनुष्यैः ॥ १० ॥ इति उपदेशाष्टकं समाप्तम् ॥ ॥ अथ श्रावकाष्टकम् ७ ॥ चिन्ता श्रद्धा तत्र धानि त्रिसन्ध्यं, न्यायो देवं साम्यता धर्मभक्ति: । त्रैकाल्यं जैनोपधाभिल्लपल्ली, शिष्टं शिष्टैरष्टकं श्रावकाणाम् || ९ || चिन्तामणिर्मणिषु कल्पतरुस्तरुणां, सन्तः शठेष्ववि कलौ करुणा गुणेषु । पूर्वोदिताः कलियुगे विरला पदार्थाः, लकम् ॥४॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy