SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ बबन्याविधान ॥ १ ॥ सोढव्याः ॥ १३ ॥ अनियतवासो भिक्षा-टनं च तलिकोपभोगपरिहारः । शीतातपदंशाधा-हितपीडाविषहण कार्यम् ॥ १४ ॥ स्नान विलेपनभूषा-घमिलापश्चेतसाऽपि नो कार्यः । भूमौ शयनक्लेशो, लुचनमपि दुष्करं सह्यम् ॥१५॥ प्रतिमाभ्यासः कायोत्सर्गो नानाविधासनविधानम् । इत्यादिरनेकविधः, कायक्लेशो विधातव्यः ॥ १६ ॥ शान्तिक्षमैश्च भाव्यं, क्रोधाहकारनिकृतिलोभाश्च । शत्रव इव निग्राह्या, दमनीयः करणहयनिचयः ॥१७॥ अन्यच्च चरेत्तिष्ठे-दासीत तथा शयीत भुञ्जीत । |भाषेत शान्तचित्तः, सदैव किल यतनया साधुः ॥ १८ ॥ मानापमानलाभा-लाभेष्वविकारमानसैर्भाव्यम् । सोढव्या दुर्जनवचन-कण्टकाहितमहापीडा ॥ १९ ॥ दण्डत्रितयं शल्य-त्रयं च विकथा स्वपरपरिवादः । ऋद्धिरससातगौरव-मदविषया दरतस्त्याज्याः ॥ २० ॥ किंबहुना पैशाचिक-माख्यानं कुलवधका श्रुत्वा । नित्यं संयमयोगै-र्धार्यश्चात्माऽक्षणिक एव ॥ २१ ॥ एतत्समुद्रतरणं, बाहुभ्यो श्रोतसि प्रतिश्रोतः । गमनं सिकताकवल-स्य चर्वणं शिखिशिखापानम् ॥ २२ ॥ मेरोस्तुलया तोलन-मिदं तु निशि निशितखड्गधारायाम् । चंक्रमणं शत्रुबले, युद्धं चैकाकिनश्चैतत् ॥ २३ ॥ ग्राह्या च जयपताका, राधावेधं विधाय नन्वेषा । इत्यादिभिरुपमानैः, सुदुष्करा भवति जिनदीक्षा ॥ २४ ॥ अथवेयं प्रव्रज्या, सुदुष्करा भवति कातरनराणाम् । वीराणां मोक्षसुखा-भिलाषिणां हन्त सुकरैव ॥ २५ ॥ अपरं च सर्वमपि ध-र्मकृत्यमिह भावतः कृतं सफलम् । स्यादिति भावविशुध्ध्या, परिपाल्याऽसौ सदा भद्रैः ॥ २६ ॥ इति दीक्षाविधिमेनं, यो भव्यजनः करोति भावेन * । स भवेत्परमानन्दः, सूरिः सज्ज्ञानचारित्रः ॥ २७ ॥ अथ तस्मिन्नेव भवे, भवान्तरे वा मनुष्यसंबद्धे । हत्वा मोहं लब्ध्वा, च केवलं शिवपदं लभते ॥ २८ ॥ इति प्रव्रज्याविधानं समाप्तम् ।।
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy