SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ नयचक्रसार मूळ बालावबोधसहित ॥१३०॥ पतया सगृह्यन्ते अनेनेति सङ्ग्रहः अथवा संगृहीतं पिण्डितं तदेवार्थोऽभिधेयं यस्य तत् सङ्गृहीतपिण्डितार्थं एवंभूतं वचो यस्य सङ्ग्रहस्येति सङ्ग्रहीतपिण्डितं तत् किमुच्यते इत्याह संगहिय मागहीयं संपिडियमेगजाइमाणीयं ॥ संगहियमणुगमो वा वइरे गोपिंडियं भणियं ॥१॥ सामान्याभिमुख्येन ग्रहणं सङ्ग्रहीतसङ्ग्रह उच्यते, पिण्डितं त्वेकजातिमानितमभिधीयते पिण्डितसङ्ग्रहः अथ सर्वव्यक्तिष्वनुगतस्य सामान्यस्य प्रतिपादनमनुगमसङ्ग्रहोऽभिधीयते व्यतिरेकस्तु तदितरधर्मनिषेधाद् ग्राह्यधर्मसङ्ग्रहकारकं व्यतिरेकसङ्ग्रहो भण्यते यथा जीवोजीव इति निषेधे जीवसङ्ग्रह एव जातः अतः १ सङ्ग्रह, २ पिण्डितार्थ, ३ अनुगम, ४ व्यतिरेकभेदाच्चतुर्विधः अथवा स्वसत्ताख्यं महासामान्यं संगृह्णाति इतरस्तु गोत्वादिकमवान्तरसामान्यं पिण्डितार्थमभिधीयते महासत्तारूपं अवान्तरसत्तारूपं “एगं निच्चं निरवयवमकियं सवगं च सामन्नं * एतत् महासामान्यं गवि गोत्वादिकमवान्तरसामान्यमिति संग्रहः॥ * एक सामान्यं सर्वत्र तस्यैव भावात् तथा नित्यं सामान्यं अविनाशात्तथा निरवयवं अदेशत्वात् , अक्रिय देशान्तरगमनाभावात् सर्वगतं च सामान्य ॥१३०॥ अक्रियत्वादिति ॥
SR No.600385
Book TitleJivvicharadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorJinduttasuri Gyanbhandar
PublisherJinduttasuri Gyanbhandar
Publication Year1928
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy