________________
सविवरण
श्रीज्ञाना
वप्रकरणम्॥ ॥११॥
RAASAR
पत्तिः, वस्तुतक्षेत्रपरामर्शसमवायिनि मैत्रे न चैत्रशरीरावच्छिन्नानुमित्यापत्तिः, कार्यतानवच्छेदकरूपेणापत्त्यभावात्, न च तवैकैकात्मस्थलेऽनन्तशरीराणां तत्त्वतत्त्वेन तत्तदात्मगुणं प्रति हेतुता वाच्या, मम तु समवायेन तदात्मसमवेतगुणत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन तदात्मत्वनावच्छेदकतया तं प्रति च तदात्मशरीरत्वेन हेतुताद्वयं युक्तमेव कल्पनीयं, अथ तदात्मीयत्वं न तदात्मसंयोगोऽतिप्रसङ्गात्किन्तु तदात्मादृष्टोपगृहीतत्वं तच्चाननुगतमेवेति तवापि नानैव हेतुत्वमिति चेत्, न, स्वसमवेतादृष्टोपगृहीतत्वसम्बन्धेन तदात्मव्यक्तिवच्छरीरत्वेनानुगतस्यैव हेतुत्वादिति वाच्यं, शब्दादौ तच्छरीरावच्छिन्न प्रति तच्छरीरत्वेन हेततया बलप्तयैव निर्वाहोद्धतुत्वान्तराकल्पनया ममैव लाघवात्, अथवाऽवच्छेदकतया कार्योत्पत्तावपि प्रागभाव एव नियामक इति न किञ्चि- | दनुपपन्नम्, अथादृष्टफलयोः प्रतिनियमदर्शनानानात्मानो व्यवस्थाप्यन्तेऽन्यशरीरजनितस्यादृष्टस्यान्यशरीरावच्छेदेन फलजनकत्वेऽतिप्रसङ्गान्नियामकान्तरस्य चादर्शनादिति चेत्, न, तच्छरीरजनिताऽदृष्टस्य तजन्यशरीरावच्छेदेन फलजनकत्वेऽतिप्रसङ्गाभावात, एवं च जननमरणादिनियमोऽप्युपपादित इति दिग् ॥ नन्विदं भवतामपि समं दूषणं शरीरव्यापिनानात्मकल्पनापेक्षया विभोरेकस्यैवात्मनःकल्पनौचित्यात्, सिद्धान्तविरोधस्त्वावयोःसमान एव,एकात्मवादे मोक्षार्थितया कस्यापि प्रवृत्तिर्न स्यात्किञ्चिच्छरीरावच्छेदेन सकलदुःखध्वंसलक्षणस्य मोक्षस्य सिद्धत्वात्सिद्दे इच्छाविरहात्, तच्छरीरावच्छेदेन दुःखध्वंसे तु नेच्छा, सर्व दुःखं नश्यत्विति कामनयैव परिव्रज्यादौ प्रवृत्तरिति समाधानमप्यावयोः समानमिति चेत्,न, सिद्धिपदप्राप्तीच्छयैव तदुपायेषु प्रवृत्तेः, प्रेत्यभावादिव्यवस्थया च नानात्मनां भेदस्याविभुत्वस्य च सिद्धोभयनिरासे तात्पर्यात, नहि दुःखध्वंसार्था पुरुषाणां प्रवृत्तिरपि तु सुखाथैवेति सर्वमवदातम् । तदेवं भावमनो बहिर्गत्वा वस्तुप्रकाशयेदिति विकल्पो निरस्तः ॥३२॥
मतिनिरू|पणे व्यञ्चनावग्रहप्रस्तावे मनसःप्राप्य
कारित्वस्य___ खण्डने आत्म विभु
त्वस्य ख| ण्डनं, तत्रै. कात्मवादापत्तिश्च ॥