________________
CHECK
CATEGO
पद्यानभ्युपगमसिद्धान्तविरोधात्, अवच्छेदकभेदेन विभुविशेषगुणानामपि युगपदुत्पत्चिरिष्टैव, शब्दस्थले दृष्टत्वादिति चेत्, न,तथापि
मतिनिरूपमुहूर्तानन्तरमपि छिन्नगोधाशरीरे कम्पोपलब्धिप्रसङ्गात्, तदानीं ततो मनोविगमः कल्प्यत इति चेत्, न, एतादृशकष्टकल्प
णे व्यञ्जनानापेक्षया तत्रात्मप्रदेशानुप्रवेशोऽदृष्टवशाच कालान्तरे तत्सङ्घट्टनमिति कल्पनाया एव युक्तत्वादिति दिग् ॥ एवमदृष्टादात्मसं- वग्रहप्रस्तावे योग विना परमाणुष्वाधकर्मानुपपत्तावन्त्यसंयोग विना तन्निमित्तशरीरानुत्पत्तौ शरीरव्यापित्ववादे सर्वेषामनायाससिद्धो मोक्षः मनसःप्राप्यस्यादित्यप्युन्मत्तभाषितप्राय, विभुत्ववादेऽपि सकलपरमाणुग्रहणाभावस्यादृष्टस्वभावाधीनत्वेन शरीरव्यापित्ववादेऽप्यसम्बद्धानाम
कारित्वखपि परमाणूनां स्वभावत एव नियतानां ग्रहणानियतशरीरोत्पत्तेराविरुद्धत्वात्, तदेवमसमुद्धतस्यात्मनः शरीर एवं वृत्तिः,
१५ण्डने आत्मसमुद्घातमहिम्ना तु बहिरपीति सुव्यवस्थितम् ॥३१॥ विभुत्वनये तु महतीयमनुपपत्तिरित्याह
विभुत्वस्व विभुत्वे पुनरात्मा स्या-देक एवान्तरिक्षवत् ॥ उपपत्तेर्व्यवस्थाया, विविधोपाधिभेदतः ॥ ३२॥९॥ | खण्डनम् ॥ __ आत्मनो विभुत्ववादे ह्येकात्मपरिशेषापत्तिरेकत्रैव नानात्मकार्योपपत्तेः, एकत्रव्योम्न नानाघटसंयोगवदेकौवात्मनि नानामन:शरीरेन्द्रियसंयोगानामेकाकाशसमवेतनानाशब्दवच्चकात्मसमवेतनानासुख दुःखादीनां युगपदुत्पत्तिसम्भवात् , अथावच्छेदकतासम्बन्धेन शब्दोत्पत्तौ संयोगादिरूपस्यासमवायिकारणस्य नियामकत्वादेकत्रापि व्योम्नि देशभेदेन नानाशब्दोत्पायुज्यतामत्र तु कथमिति चेत्,न, अत्राप्यवच्छेदकतासम्बन्धेनात्मविशेषगुणत्वावच्छिन्नं प्रति प्राणशरीरसंयोगादेरसमवायिकारणस्य नियामकत्वात् सुषुप्तिकाले ज्ञानानुत्पत्तिनिहाय च त्वङ्मनोयोगस्य शरीरनिष्ठतया हेतुता वाच्या, त्वयाप्यात्मनिष्ठतया तद्धेतुताकल्पनात्,एवं च परामर्शादीनामपि शरीरनिष्ठतयैवानुमित्यादिहेतुत्वान्न चैत्रशरीरावच्छेदेन परामर्शान्मैत्रशरीरावच्छेदनानुमित्याद्या
COMMENT
R
.56