________________
U
सविवरणं श्रीज्ञाना
र्णवप्रकरणम्॥ ॥४०॥
RGA
त्वतथात्वात्, न च तादृशकार्येऽपि घटादौ प्राक्प्रसिद्धसमानजातयिकपालसंयोगारभ्यत्वं दृष्टं, कुम्भकारादिव्यापारान्वितान्मृत्तिण्डात्प्रथममेव पृथुवुध्नोदराद्याकारस्योत्पत्तिप्रतीतेरित्यप्याहुः ॥३०॥ प्रमाणसिद्धेऽर्थे न किञ्चिदन्पदाधकमित्यन्यत्रातिदिशति
मूर्तत्वादिप्रसङ्गोऽपि, वारणीयोऽनया दिशा ॥ मानराजादरे दुष्टा, हन्तापत्तिने पत्तिवत् ॥३१॥८॥
एवञ्च मूर्तशरीरानुप्रवेशेनात्मनो मृतत्वापत्तिरपि परास्ता, यतः किमिदं मृतत्वं इयत्तावच्छिन्नपरिमाणपोगो रूपादिसत्रिोशो वा, आये इष्टापतिः, न ह्यविभुद्रव्यस्य मृतत्वं न मन्यते कश्चिद्विपश्चित, नान्त्यो मृानुप्रवेशिनो रूपादिमचव्याप्तिविरहान्मनस्येव व्यभिचारात,न च मूर्तमहत्येनापि तद्व्याप्तिरस्ति,अप्रयोजकत्वाद्,एवमात्मनो मूर्तद्रव्यत्वेऽचेतनत्वापत्तिरपि परास्ता, सहचारदर्शनमात्रेण व्याप्त्यग्रहाद्, अन्यथा विभुत्वेऽप्याकाशादिवत्तथात्वं स्यात्,एवं चबालयुवशरिपरिमाणभेदेनात्मनो भेदापत्तिः,परिमाणभेदे द्रव्यभेदावश्यम्भावात्, तथाचान्यदृष्टस्पान्यस्य स्मरणानुपपत्तिरित्यधरीकृतं, कथञ्चिद्भेदेऽपि तस्याभेदाभ्युपगमात्सर्पस्येव सफणविफणावस्थयोः,अत्यन्तभेदे तु प्रत्यभिज्ञाद्यनुपपत्तिरित्यन्यत्र विस्तरातथा शरीरखण्डने शरीरव्यापिनो जन्तोरपि खण्डनप्रसङ्ग इत्यप्यसमीक्षिताभिधानं,शरीरखण्डने कथञ्चित् तत्खण्डनस्येष्टत्वाच्छररिसम्बद्धात्मप्रदशेभ्यो हि कतिपयात्मप्रदेशानां खण्डितशरीरप्रदेशानुप्रवेश आत्मनः खण्डनं, तच्चात्र विद्यत एव, अन्यथा खण्डितशरीरप्रदेशस्य कम्पोपलब्धि स्यात्.नह्यात्मविभुत्ववादेपि शरीर तदवयवं विना वाऽन्यत्रात्मगुणोपलब्धिः,न चखण्डितशरीरप्रदेशोपिशरीरमेव,अथ पूर्वावयवसंयोगाविशेषेऽपि संयोगान्तरेणाऽदृष्टवशात् खण्डशरीरद्वयोत्पत्तेर्न दोष इति चेत्, न, एकदा शरीरद्वयोत्पत्तेविरोधादविरोधे वैकदोभयत्र मनःसंयोगविरहात् कथश्चैकदेव तयोः कम्पोपलब्धिः, अदृष्टवशात् खण्डितशरीरे मनोन्तरप्रवेशाभ्युपगमात्र दोष इति चेत्, न, तथाप्यात्माविशेषगुणयोग
मतिनिरूपणे व्यञ्जनावग्रहप्रस्तावे मनसः प्राप्यकारित्वस्य खण्डने आत्मविभुत्वस्य | खण्डनम् ॥
--
ASSIS:
RECRUCUOEMCHUCk
॥४०॥