________________
अथ नित्य महत्त्वेन, व्योमवद्विभुतास्य चेत् । नैवं तत्परिमाणं हि यदुत्कर्षापकर्ष भाक् ॥ २९ ॥ ८७ ॥ अथ परे प्रतिपादयेयुरात्मनो महत्त्वं तावनिर्विवादं द्रव्यचाक्षुषं प्रति कल्पनीय हेतुभावस्य महत्त्वस्य लाघवेन जन्यद्रव्य साक्षात्कारत्वावच्छिन्नं प्रत्येव हेतुत्वकल्पनात्, आत्मसाक्षात्कार निर्वाहायात्मनि महत्वस्यावश्यकत्वात्, तच्च महत्त्वं न जन्यं, कार्य हि महत्त्व अवयव बहुत्वजन्यं स्यात्तन्महत्त्वजन्यं वा प्रश्चयजन्यं वा, न च त्रितयमपि निरवयवस्यात्मनः सम्भवतीति । एवं चायं प्रयोगः, आत्मा विभुर्नित्यमहत्वादाकाशवदिति चेत्, अश्रोच्यते-अत्र हि परमप्रकृष्टपरिमाणवत्त्वलक्षणं विभुत्वं साध्यते, न च नित्यमहत्त्वस्य परमप्रकर्षविपक्षबाधको जागर्ति तर्कः, अपकृष्टत्वे तस्य जन्यत्वापत्तिर्बाधिका, गगनमहत्त्वाबधिकापकर्षस्य बहुत्वजन्यतावच्छेदकत्वादिति चेत्, न, परमाणुपरिणाम साधारणतया तस्य कार्यतानवच्छेदकत्वात् परमाणुपरिमाणे व्यभिचारेण त्रुटिमहत्वावधिकोत्कर्षेण समं साङ्कर्यात्तादृशापकर्षस्य जातित्वा सिद्धथा बहुत्वजन्यतानवच्छेदकत्वाच्च, वस्तुत आत्मपरिमाणमपि प्रचयविशेषादुत्कर्षापकर्षो भजज्जन्यमेवेति है तारेव ॥ सिद्धिः ॥ २९॥ नन्वेवमात्मनः सावयवत्वापत्तिरिति चेत्, किन चातः । सावयवत्वे सति तस्य कार्यत्वं स्यादिति चेत्, किमिदं कार्यत्वं प्रागसतः सत्तालाभः पूर्वाकारपरित्यागेनोत्तराकारोपादानं वा, नाद्यः, असत उपाय सहसेणाप्युत्पादयितुमशक्यत्वात्, अन्यथा शशविषाणस्याप्युत्पत्तिप्रसङ्गात्, अन्त्ये तु तादृशं कार्यत्वमात्मन इष्टमेवेत्यभिप्रेत्याह
एवं सावयवत्वं तन्नित्यत्वं नैव बाघते ॥ कथञ्चित्परिणामित्वं, विना तन्न घटेत यत् ॥ ३० ॥८८॥ न हि सावयवत्वेनात्मनः कथञ्चित्परिणामित्वलक्षणेऽनित्यत्वे द्रव्यकरूप्यलक्षण नित्यत्वव्याघातः येन प्रतिसन्धानाद्यभावप्रसङ्गः,नच सावयवत्वे तस्य प्राक्प्रसिद्धसमानजातीयावयवारम्यत्वप्रसक्तिः, अवयवजन्य एव कार्येऽवयवानां जनकत्वात्, अस्य
मतिनिरूपणे
व्यञ्जनावग्रहप्रस्तावे मनसः प्राप्यकारित्व
खण्डने आरमविभुत्वस्थ
खण्डनम् ॥