________________
विवरणं श्रीज्ञानार्णवअकरणम् ॥
॥ ३९ ॥
कारित्वं नातिशयजनकत्वं कार्यजन्माजन्मनोः सहकारिसन्निधानास भिधानाभ्यामेवोपपत्तावतिशय स्याकल्पनात्, किं त्वेककार्यकारित्वं, तच्च नित्यत्वेऽप्यात्मनः शरीरे निराबाधमिति चेत्, न, तथापि ज्ञानादावनन्तशरीरादिहेतुत्वकल्पने गौरवात्, आत्मनः शरीरव्यापित्वकल्पनस्यैव युक्तत्वात् ॥ २७॥ न चाऽऽत्मनो विभुत्वसाधनसावधानं बलवत्प्रमाणमपि जरीजृम्भत इत्याह-विभुत्वसाधकं किञ्चित् प्रमाणमपि नेक्ष्यते ॥ स्वसम्बन्धविशेषेणा-दृष्टं यत्कार्यमर्जति ॥ २८ ॥ ८६ ॥ नादृष्टस्य कार्यमात्रं प्रति हेतुत्वात्तस्य च स्वाश्रयसंयुक्तसंयोगेनैव हेतुत्वकल्पनादात्मनो विभुत्वासिद्धिः, प्रध्वंसे व्यभिचारात् कालिकादिसम्बन्धेनैव तस्य तत्र हेतुत्वौचित्याद्, वस्तुतस्तु कार्यत्वं कालिकसम्बन्धेन घटत्वपटत्वादित्त्ववमननुगतमिति न कार्यतावच्छेदकं न च कार्यमात्र हेतुत्वे तस्य प्रमाणमस्तीति सुखदुःखयोरेव धर्माधर्मरूपस्यादृष्टस्य हेतुत्वमास्थेयम्, अथ वनेरूर्ध्वज्वलनादावदृष्टमवे नियामकम् । तदुक्तम् । “न ज्वलत्यनलस्तिर्यग्, यदूर्ध्वं वाति नाऽनिलः । अचिन्त्यमहिमा तत्र, धर्म एव निबन्धनम् ॥१॥" न च शरीरख्यापित्वे प्राणिनोऽदृष्टस्य वन्यादिसम्बन्धः सम्भवतीति तस्य विभुत्वमेव युक्तमिति चेत्, न, स्वाश्रयसंयुक्तसंयेाग सम्बन्धनादृष्टस्य घटादावपि सत्त्वाद्, वह्नित्वविशिष्टस्वाश्रय संयुक्तः सयोग सम्बन्धेन तस्य हेतुत्वे तु स्वाश्रयसंयुक्तः संयोगविशिष्टवह्नित्वसम्बन्धेन तथात्वे विनिगमनाविरहात्सम्बन्धविशेषेणैव तद्वैतुत्वौचित्यात्, एतेन ( यदपि ) " शत्रुजिघांसया कृतेन श्येनयोगेन यज्वन्येवादृष्टविधानात्तस्य च शत्रावसम्बन्धात्कथमात्मविभुत्वं विना तत्फलोपपत्तिः (तदपि न, शक्तिविशेषरूपस्य कारणत्वस्यासम्बन्धेऽप्यविरोधात्सम्बन्धघटितत्वे वा तस्य प्रकृते सम्बन्धविशेषकल्पनावश्यकत्वाद्) इति " परास्तम् ॥ २८ ॥ विभ्रुत्वसाधकान्तरं निराकरोति—
मतिनिरूपणे
व्यञ्जनाव
ग्रहप्रस्तावे
मनसः प्रा.
प्यकारित्व
खण्डने आत्मविभुत्वस्य
खण्डनम् ॥
॥ ३९ ॥