SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ SAGAREKAR प्रयच्छन्ति ॥३६॥"इति, तस्मिन्नचेतनेऽपि चेतनत्वाभिमानोऽकर्तरि च चेतने पुरुषत्वाभिमानो भेदाग्रहादेव शरीर आत्मत्वाभिमानवत । तदक्तं-"तस्मात्तत्संयोगा-दचेतनं चेतनावदिव लिङ्गम् ॥ गुणकर्तृत्वे च तथा, कर्नेव भवत्युदानिः ॥२०॥" इति, कर्मवासनापि च बुद्धितत्त्व एव, पुरुषस्त्वनुभवतद्वासनातत्फलैः कर्मतद्वासनातत्फलैश्च निर्लेप एव, आलोचनमिन्द्रियाणां व्यापारी विकल्पस्तु मनसः, अभिमानोऽहङ्कारस्य, 'ममेदं कर्तव्यम्' इति कृत्यध्यवसायश्च बुद्धेः, अत्र हि पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेति त्रयोंशाः, तत्र ममेति पुरुषोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादताविको, यद्यपि ममत्यभिमानो न बुद्धधर्मस्तथापीदमा प्रतिनिर्दिष्टस्य विषयस्य ममेत्यत्र पुरुषस्यैव ग्राहकत्वेनाभिमानः पुरुषोपराग एव, इन्द्रियप्रणालिकोपनीतपरिणतिभेद इदमिति विषयोपरागः, मुखनिश्वासोपहतस्य मुकुरस्य मलिनिमोपराग इव पारमार्थिकः, एतदुभयोपपचौ च कर्तव्यमिति व्यापारावेशोऽपि, अस्यायं बुद्धौ विषयोपरागो ज्ञानं, दर्पणप्रतिबिम्बितमुखस्य तद्गतमलिम्नैव पुरुषोपरागस्य विषयोपरागेण सह सम्बन्ध उपलब्धिरिति, बुद्ध्युपलब्धिज्ञानानां नानान्तरत्वं, तदेवमष्टावपि धर्मा बुद्धेरेव सामानाधिकरण्येनाध्यवसीयमानत्वात्, न च बुद्धिरेव स्वभावतश्चेतना परिणामित्वाद्, उक्तश्च-अध्यवसायो बुद्धि-धर्मो ज्ञानं, विराग ऐश्वर्यम् ॥ सात्त्विकमेतद्रपं,तामसमस्माद्विपर्यस्तम् ॥२३॥ इति बुद्धयादयो नैयायिकाभिमता आत्मविशेषगुणा अप्यत्रैवान्तर्भवन्ति, अध्यक्तस्यैव ज्ञानस्य स्मृतिजनकत्वाभ्युपगमेन केवलं वासनाया एवानभ्युपगमात्,एवं आत्मा न कर्तेत्यभिमतमेवारमाकमिति चेत्॥ तदेतदखिलं पवनप्रेरिततूलवत्तरलतरमेव।। कृतिचैतन्ययोः सामानाधिकरण्यानुभवेन चेतनस्यैव कर्तृत्वात्, न चायं भ्रमो, बाधकाभावात्,न चाऽऽत्मनः कर्तृत्वे परिणामित्वप्रसङ्गो बाधकः, बुद्धेः कृतिसमवायेऽपि तस्य बाधकत्वात् परिणामिनो घटादेरकर्तृत्वस्य दृष्टत्वाद् दृष्टविरोधादयमदोष इति तु तुल्यं, कर्तु मतिनिरूपणे व्यञ्जनावग्रह प्रस्तावे आत्मविभुस्वखण्डने सांख्यमतस्योपवर्ण नपूर्वकं खण्डनम् ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy