________________
विवरणं श्रीज्ञानार्णवअकरणम् ।।
॥ ३७ ॥
आत्मनः सर्वगतत्वे ह्याकाशवत् कर्तृत्वभोक्तृत्वादिकं न स्यात्सर्वगतत्वस्याकर्तृत्वादिव्याप्तत्वाद्, आहच - "सव्वगओ त्ति य बुद्धी, कत्ताभावाइदोसओ तो ॥ २१६ ॥ । [ सर्वगत इति च बुद्धिः कर्त्रभावादिदोषतस्तन्न ] | अत्र सांख्याः सङ्गिरन्ते- कूटस्थनित्यत्वश्रुतेरात्मा तावदकारणमकार्य च, कारणत्वेऽपि तस्यानित्यकार्य परिणामित्वेनानित्यत्वप्रसङ्गाद्, अत एव जन्यधर्मानाश्रयत्वं कूटस्थपदार्थो गीयते । तदुक्तं - "न प्रकृतिर्न विकृतिः पुरुषः "इति, आदिकारणं च प्रकृतिरेव । । तदुक्तं - "मूलप्रकृतिरविकृतिरिति" अचेतनत्वेन चेयं परिणामिनी ततो महदहङ्कारन्द्रियतन्मात्रमहाभूतानां सर्गः न च पुरुषार्थप्रयोजकत्वात्प्रकृतिपरिणामस्य तदनुगुणशब्दादिपरिणाम एवास्तु किमान्तरालिकमहदादित वेनेति वाच्यम्, तत्सर्गस्य विषयबन्धनार्थत्वात् न च चितिरेव विषयसम्बन्धस्वभावा, स्वभावस्यानुच्छेद्यत्वेनानिर्मोक्षप्रसङ्गात् न च प्रकृतिरेव तदीयभोगोपकरणसम्पादनस्वभावा, नित्यत्वेन तस्याः कदाचिदप्यात्मनो निरुपाधिकत्वाभावेन तत एव न च घटादिरेवाहत्य तदीयो, दृष्टादृष्टविभागानुपपत्तेः, नापीन्द्रि प्रणालिकयैव चिद्विषयसम्बन्धः, व्यासङ्गायोगात्, नापीन्द्रियमनोद्वारा, स्वप्नदशायां वराहव्याघ्राद्यभिमानिनो नरस्यापि नरत्वाभिमानानुदयात्, नह्ययं बाह्येन्द्रियवृच्त्यभावकृतो जाग्रदवस्थायामपि तस्य तन्निरपेक्षत्वदर्शनात्, न च मनोविरहकृतः, तस्य स्वप्नेऽपि व्यापारात्, तस्माद् यद्विरहकृतः स्वप्नेऽभिमानानुदयस्तदतीन्द्रियं तत्कारण महङ्कारतन्वमवश्यमभ्युपेयमिति, न चाहङ्कारपर्यन्तव्यापारेणैव चिद्विषय सम्बन्धस्वभावः, सुषुप्त्यवस्थायां तद्व्यापारविरामेऽपि श्वासप्रश्वासप्रयत्नसन्तानावस्थानात्, तद् यदेतास्ववस्थास्वनुवर्त्तमानमेकं सव्यापारमवतिष्ठते यदाश्रया चानुभववासना तद्बुद्धितत्त्वाख्य मन्तःकरणमिन्द्रिय मनोऽहङ्कारपरम्परयोपारूढोऽर्थः पुरुषस्य भोगाय भवति । तदुक्तं - "एते प्रदीपकल्पाः, परस्परविलक्षणा गुणविशेषाः । पुरुषस्यार्थं स्वच्छं, प्रकाश्य बुद्धौ
मतिनिरूपणे व्यञ्जनावग्र
प्रस्तावे
मनसः प्रा प्यकारित्वखण्डने आ
|त्मनो विभु
वखण्डने
सांख्यप्रश्नः ॥
॥ ३७ ॥