________________
मतिनिरूपणे व्यञ्जनावग्र
हप्रस्तावे मनसः प्राप्यकारिक स्य खण्ड
COMMUMROSAREE
द्धृतम्)।।किश्च मनोप्राप्यकार्याप प्रतिनियतस्यैव ग्राहकम् ननु मनसोऽपि सर्वग्राहकत्वप्रसङ्गतो नाप्राप्यकारित्वं किन्तु प्रतिनियतग्राहित्वेन तत्प्राप्यकारि स्यादिति चक्षुषोऽप्राप्यकारित्वसाधने दृष्टान्तीकृतस्य मनसः साध्यसाधनाभयवैकल्यामति चेत्, न, ज्ञेयसम्पर्क कृतानुग्रहोपघातलक्षणलिङ्गाभावेन तस्य तत्सम्पर्कासिद्वेः,अन्यथा जलज्वलनादिचिन्तया तस्य क्लेददाहादिप्रसङ्गः, अमुकत्र गतं मे मन इति प्रयोगस्य च गत्यर्थानां धातूनां ज्ञानार्थत्वेनैतदर्थग्रहणाय व्याप्तं मे मन इत्यर्थः ॥ आह च-"गंतुं नेएण मणो, संवज्झइ जग्गओ व सिमिणे वा ।। सिद्धमिदं लोमिवि, अमुगत्थगओमणो मित्ति ॥२१३॥"[गत्वा ज्ञेयेन मनः, सम्बध्यते जाग्रतो वा स्वमे वा ।। सिद्धमिदं लोकेऽपि अमुकत्रगतं मनो मे इति॥] "नाणुग्गहोवधाया-भावाओ लोअणं व, सो इहरा । तोयजलगाइ चिंतणकाले जुजेज दोहिंपि।।२१४॥"[नानुग्रहोपघाताभावाल्लोचनमिव तदितरथा। तोयज्वलनादिचिन्तनकाले युज्येत द्वाभ्यामपि]॥१७॥
किश्च भावमनो द्रव्यमनो वा बहिर्गत्वा ज्ञेयेन सम्बध्यत इति विकल्प्य दोषमाहकिञ्च भावमनो गच्छेद-बहिर्द्रव्यमनोऽथवा ॥ नाद्यः शरीरवृत्तित्वा-दात्मनोऽनिर्गमाद बहिः॥२५॥८३॥ ___उक्तविकल्पद्वये हि प्रथमविकल्पो न प्रथते भावमनसाश्चिन्ताज्ञानपरिणामरूपस्य जीवानन्यत्वाज्जीवस्य च शरीरमात्रवृत्तित्वेन तपादीनामिव बहिनिर्गमासम्भवाद्,आहच-"दव्वं भावमणोवा, वएज्ज जीवो अहोइ भावमणो॥ देहव्वावित्तगओ, न देहबाहिं तओ जुत्तो।।२१५॥"[द्रव्यं भावमनोवा बजेज्जीवश्च भवति भावमनः॥देहव्यापित्वान देहबहिस्ततो युक्तः ॥२५॥ नन्वात्मनः शरीरव्यापित्वमेवासिद्धं सर्वगतत्वादिति चेद्, उच्यते-[प्रतावस्येह द्वे पत्रे सप्तगाथाश्च गता इति लिखित्वापरावृतिश्च कृता]
कर्तृत्वं व्योमवन्न स्यात्-सर्वगत्वे किलात्मनः॥ प्रकृतेरेव कर्तृत्वं, युज्यते न कथञ्चन ॥२६॥८॥
COMCHIRAGAL