SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ P C RAKAKARRORKERA शेषेण, द्वारानुपाताद्वा जलवद् वेगवद्विरलद्रव्यस्य पवनाभिमुखमेव प्रसप्रेणादनयोः प्रायो द्वारानुधावनमिति बोध्यं, पर्वतादिषु प्रतिस्खलनाद् वा तौ तथा पाषाणवद्, आह च-"जं ते पोग्गलमइआ, सक्किरिया वाउवहणाओ ॥ २०६ ॥ धृमोव्व संहरणओ, दाराणुविहाणओ विसेसणं ॥ तोयं व णितंबाइसु, पडिघायाओ य वाउव्व ॥२०७॥" [यत्तौ पुदगलमयौ सक्रियो वायवहनात ॥ धूम इव संहरणतः द्वारानुविधानतो विशेषेण ॥ तोयमिव नितम्बादिषु, प्रतिघाताच्च वायरिव ॥] ननु पवनोपनीतगन्धवद्र्व्याणां घ्राणेन सह संयोगोऽस्तु शब्दस्त्वाकाशगुण इति न श्रोत्रेण तस्य मंयोगः प्रत्यासत्तिः किंतु श्रोत्रस्य कर्णशकुल्यवच्छिमाकाशरूपत्वाच्छब्दस्य च तद्गुणत्वात्समवाय एव, गतिस्तु तत्र पवनगतैवारोप्यते न तु स्वाभाविकी, स्वाभाविकगतेरन्यगत्यनुविधानानुपपत्तरिति चेत्, न, प्रतिघातजनकत्वेन तस्य द्रव्यत्वसिद्धेः, न च तीव्रतरपवमानस्यैव प्रतिघातजनकत्वं न तु शब्दस्येति वाच्यम्, भर्यादिशब्दजनकपवनसदृशपवनान्तरेणापि बाधिर्याद्युदयप्रसङ्गात्, अपि च श्रोत्रमपि नाकाशं बाधिर्याद्यभावप्रसङ्गारिकन्तु मूर्तमेवेन्द्रियमिति न तस्य शब्दो गुणः॥ किश्च शब्दस्याकाशगुणत्वे सर्वस्य सर्वशब्दग्रहणापत्तिः श्रोत्रसमवायाविशेषात्, तत्पुरुषीयकर्णशष्कुल्यवच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतायास्तत्पुरुषीयशब्दग्रहं प्रति हेतुत्वकल्पने महागौरवात्, द्रव्यत्वे तु संयोगेनैव श्रोत्रेण ग्रहणोपपत्तौ न किञ्चिदनुपपन्नं, एवं च शब्दस्य द्रव्यत्वे समवायसमवेतसमवायप्रत्यासत्यकल्पनया लाघवं द्रष्टव्यं, शब्दस्य मूर्तत्वे तत्साक्षात्कारो न स्याद्विषयतया मूर्तप्रत्यक्षत्वावच्छिनं प्रति समवायेनोभृतरूपवश्वस्य हेतुत्वादिति चेत्, न, द्रव्यप्रत्यक्षत्वावच्छिन्नं प्रति योग्यताविशेषस्यैव हेतुत्वात्स च व्यावृत्तिविशेषः शक्तिविशेषो वेत्यन्यदेतव, श्रोत्रेन्द्रियव्यवस्थापकत्वेन शब्दस्याम्बरगुणत्वसिद्धिरिति तु मन्दं, इन्द्रियान्तराग्राह्यग्राहकत्वस्यैव भिमोन्द्रियत्वव्या मति० व्य. श्रोत्रघ्राणयोरप्राप्य. कारित्वस्य खण्डनं शब्दे आकाशगुणत्वस्य खण्डनश्च
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy