________________
ॐ
मतिनिरूपण
प्रसङ्गे व्यञ्जनावग्रहस्य ज्ञानस्वब्यवस्थापनम् ॥
PAGE
वग्रह इति मध्यमपदलोपेन समास आश्रयणीया,अर्थभेदेऽपि पदसारूप्येणैकशेषाश्रयणाद्,एकशेषेण व्यञ्जनानामवग्रह इत्यपि स्यात् ॥आह च "जिज्जइ जेणत्थो,घडोव दीवेण वंजणं तं च॥ उवगरणिदियसद्दाइ-परिणयहब्बसम्बन्धो ॥ १९४ ॥"व्यज्यते येनार्थो घट इव दीपेन व्यञ्जनं तच्च।। उपकरणेन्द्रियशन्दादिपरिणतद्रव्यसम्बन्धः। नन्वयं व्यञ्जनावग्रहो न ज्ञानमित्यत आहस तदन्ते ज्ञानभावा-दव्यक्तं ज्ञानमिष्यते(ताम् )।अन्यथा प्रागलाभं त-दन्तेऽपि न जनुर्लभेत् ॥१२॥७॥ ___व्यञ्जनावग्रहसमयो ज्ञानवान्, ज्ञानोत्पत्तिघटकान्त्यसमयशालित्वात्, यदन्त्यसमये ज्ञानमुत्पद्यते स कालो ज्ञानवान्, यथा ईहाद्यसमयः,इत्यनुमानाद् व्यञ्जनावग्रहस्य ज्ञानत्वसिद्धिः। आह च-"अनाणं सो बहिरा-इणं व तकालमणुवलंभाओ॥ण,तदंते तत्तोच्चिय, उवलंभाओ तओनाणं ॥१९५॥"[अज्ञानं स बधिरादीनां वा तत्कालमनुपलम्भात् ।। न, तदन्ते तत एवोपलम्भात्स ज्ञानम्] ननु यदि व्यञ्जनाऽवग्रहो ज्ञानं तर्हि बधिरादीनामपि शब्दादिज्ञानापत्तिस्तत्कालेऽपि तदुपलम्भापत्तिश्चेतिचेत्,न,बधिरादीनांव्यञ्जनव्यञ्जनपूर्तिघटकशक्त्यभावादच्यक्तत्वेन तदनुपलम्भसम्भवाच्च, आह च-"तकालम्मि वि नाणं, तत्थस्थितणुं ति तो तमव्वचं ।। बहिराईणं पुण सो, अनाणं तदुभयाभावा ॥ १९६ ॥" [ तत्कालेऽपि ज्ञानं तत्रास्ति तनु इत्यतस्तदव्यक्तम् ॥ बधिरादीनां पुनः सोऽज्ञानं तदुभयाभावात् ॥] एतेन 'यदन्त्यसमये ज्ञानमुत्पद्यते स कालो ज्ञानवानिति न व्याप्तिः, अवग्रहाकाले व्यभिचाराद्'इति निरस्तं, ज्ञानसामग्रीसम्पनत्वस्य हेतुविशेषणत्वाद् , अत एव सर्वेषु शब्दादिद्रव्यसम्बम्धसमयेषु ज्ञानमस्ति ज्ञानोपकारिशब्दादिद्रव्यसम्बन्धसमयसमुदायकदेशत्वादर्थावग्रहसमयवदित्यपि प्रयोगः,यदि च कारणसाम्राज्येऽपि प्राक्समयेषु ज्ञानोत्पत्तिर्न स्यात्पर्यन्त्यसमयेऽपि न स्यादविशेषाद्, आह च-"जइ वाणमसंखज-समयसदाइदव्वसम्भावे । किह चरिमसमयसद्दाइ
RUGALO
Aamaanaamana