________________
सविवरणं भज्ञाना
र्णव
प्रकरणम् ॥
॥ ३१ ॥
धारणात्वेन सर्वासामप्येकीकृत्य ग्रहणाद्, यथा द्विरूपयेारप्यवग्रहयोरवग्रहत्वेन ग्रहणम्, आह च - "तुब्भं (झ) बहुयरभेआ, भणइ मई होइ धिइबहुत्ताओं || ममइ न जाइभेओ, इट्ठो मज्झं जहा तुज्झ ॥ १९१ ॥ " [ तव बहुतरभेदा भणति मतिर्भवति धृतिबहुत्वात् ॥ भण्यते न जातिभेद इष्टो मम यथा तव ॥ ] " सा भिन्नलक्खणा वि हु, धिइसामभेण धारणा होइ ॥ जह उग्गहो दुरूवो, उग्गहसामनओ इक्को ॥ १९२ ॥ " सा भिन्नलक्षणापि खलु धृतिसामान्येन धारणा भवति ॥ यथाऽवग्रहो द्विरूपोऽवग्रह सामान्यत एकः ] नन्वपायसन्ततिरूपाऽविच्युतिः कथं धारणेति चेत्, अपायजन्यत्वाद्धारयामीत्यनुभवाच्च, स्मृतेरिव प्रत्यभिज्ञाया अपि धारणात्वात्तिसृणां धारणानां ग्रहणे न्यूनत्वमिति चेत्, न, स्मृतिपदेन तत्ताविषयकज्ञानविशेषग्रहणादिति दि ॥ १० ॥ तदेवं विप्रतिपत्तीर्निराकृत्य विभागं व्यवस्थाप्य प्रागुद्दिष्टमवग्रहं निरूपयति
तत्र द्विधाऽवग्रहः स्याद् - व्यञ्जनार्थावलम्बनः ॥ तत्रेन्द्रियार्थसम्बन्धो - व्यञ्जनावग्रहः स्मृतः ॥ ११ ॥ ६९ ॥ तत्रावग्रहेहापायादिषु मतिभेदेषु, अवग्रहो द्विविधो व्यञ्जनावग्रहोऽर्थावग्रहश्च तत्र प्रथमोपदिष्टत्वाद् व्यञ्जनावग्रहः प्राग्निरूपणीय इत्यत आह तत्रेति, आह च - " तत्थोग्गहो दुरूवो, गहणं जं होज्ज वंजण-त्थाणं ॥ वंजणओ य जमत्थो, तेणाईए | बुच्छं ॥ १९३ ||" [ तत्रावग्रहो द्विरूपो ग्रहणं यद् भवति व्यञ्जनार्थयोः ॥ व्यञ्जनतश्च यदर्थस्तेनादौ तकं वक्ष्ये ||] इन्द्रियार्थ - सम्बन्ध इति तत्समयभावीति तात्पर्यार्थः, योगार्थमाह-स्वयं व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनं, कदम्बकुसुमगोलकधान्यमसूरकाहलाक्षुरप्राकारमां सगेालकरूपाणामन्तर्निर्वृत्तीन्द्रियाणां शब्दादिविषयपरिच्छेदहेतुशक्ति विशेषलक्षणमुपकरणेन्द्रियं शब्दादिपरिणतद्रव्यनिकुरम्बम्, तदुभयसम्बन्धश्च ततश्च व्यञ्जनेनेन्द्रियेण व्यञ्जनस्यार्थस्य तत्सम्बन्धस्य वाऽवग्रहो व्यञ्जना
मतिनिरूपण
प्रसङ्गे अवग्रहभेदनि
रूपणं तत्र
व्यञ्जना
वग्रद्दलक्ष
गोपदर्श
नम् ॥
॥ ३१ ॥