________________
सविवरणं
श्रीज्ञानार्णवप्रकरणम् ॥
॥ ३० ॥
1949
धर्मव्यवसितेर्जायमानो निश्चयो यदि धारणाख्यामाविभृयात्तदा स्मरणस्यादुरुपह्नवत्वेनावग्रह ईहाऽपायो धारणं स्मरणञ्चेति मतिज्ञानस्य पश्च भेदाः प्रसजेयुः, एवञ्चागमविरोधः, किश्चैवं धारणाजनकं व्याप्यधर्मवत्ताज्ञानमपाय एवेतीहासंशय एव स्यात्तथा|चोक्तदोषप्रसङ्गः । अथ व्यतिरेकधर्मज्ञानाज्जायमानो निश्चयोऽपायोऽन्वयधर्मज्ञानाज्जायमानस्तु धारणेति चेत्, न, उभयधर्मज्ञानाज्जायमानस्य निश्वयस्योभयरूपत्वप्रसङ्गादुक्तदोषप्रसङ्गाच्च, एतेन व्यतिरेकधर्मावगाही निश्चयोऽपायोऽन्वयधर्मावगाही तु धारणेत्यपि निरस्तम् ॥ ८ ॥ ननु धारणा नामाऽविच्युतिस्मृतिवासनालक्षणं मतिभेदान्तरं नास्तीत्यपायविशेष एव स इति न मम भेदपश्चकप्रसङ्गो व्यक्तिभेदमनादृत्य जातिभेदान्वेषण निष्ठानां भवतामेव प्रत्युत भेदत्रयप्रसङ्ग इत्याशङ्कते— अविच्युतिरपायो हि, संस्कारो ज्ञानमेव न ॥ अन्योऽपायः स्मृतिस्तेन, चतुर्भेदा मतिः कथम् ? || ९ ||६७||
इह तावद्घटादिके वस्तुनि अवग्रहेहापायरूपतयान्तर्मुहूर्तिक एवोपयोगो जायते तत्रापायोत्पत्त्युत्तरं उपयोगसातत्यलक्षणा चाऽविच्युतिर्भवद्भिः स्वीक्रियते सा तावत्तावत्कालीनापायस्वरूपान्नातिरिष्यते नहि कालभेदेन वस्तुभेदो नाम क्षणभङ्गप्रसङ्गात् या चोपयोगोपरमे सति संख्येयमसंख्येयं वा कालं वासनाऽवतिष्ठत इत्यभ्युपगम्यते सा किं वस्तुविकल्पो वा स्मृतिज्ञानावरणकर्मक्षयोपशमो वा तज्ज्ञानजननशक्तिर्वा, नाद्य एतावन्तं कालं तद्वस्तुविकल्पायोगात् नोत्तरौ अज्ञानरूपत्वेन तस्य मति - भेदत्वाऽसम्भवाद्, या चानुभूतस्य कालान्तरोपयोगलक्षण स्मृतिराविर्भवति साप्यन्वयधर्मेणापि निश्चयोऽपाय एवेति त्वदभ्युपगमादपायान्तरमेवेति अवग्रह ईहाऽपायश्वेति तिस्र एव मतेर्भिदाः सम्भवन्तीति कथं न विभागवाक्यविरोधः । आह च'काणुवओगम्मि धिई, पुणोवओगे अ सा जओवाओ । तो णत्थि धिई ॥ ति ॥ ९ ॥ [ कानुपयोगे धृतिः पुनरुपयोगे च
46
मतिनिरूपणेऽपायधारणाविप्र
तिपत्तिनि
रासः ॥
॥ ३० ॥