SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अन्वयाद् व्यतिरेकाद - प्यन्वयव्यतिरेकतः ॥ अपायस्योदयासन्नो, भिदाः पञ्च स्युरन्यया ॥ ८ ॥ ६६ ॥ अन्वयधर्मवत्ताज्ञानाद्व्यतिरेके धर्मवत्ताज्ञानादुभयधर्मवत्ताज्ञानाच्चाविशेषेणहीतापायस्यैव प्रवृत्तेरसद्भूतधर्मनिषेधाकलनर्माहा, तज्जन्यनिश्चयश्चापायः, परमित्युक्तेऽन्वय धर्मगवेषणजन्या धारणा न स्यात् । आह च "कासह तयन्नवइरेग - मेतओवगमणं भवे भ्रूए ॥ सन्भूअसममयओ, तदुभयओ कासह ण दोसो || १८६ ॥ सब्बो वि य सोवाओ, भेए वा होंति पंच वत्थूणि ।। आहेवंचिय चउहा, मई तिहा अमहा होइ || १८७ ॥ [ कस्यचित्तदन्यव्यतिरेकमात्रतोऽवगमनं भवेद् भूते ।। सद्भूतसमन्वयतस्तदुभयतः कस्यचिन दोषः॥ सर्वोऽपि च सोऽपायो भेदे वा भवन्ति पंच वस्तूनि ॥। आहैवमेव चतुर्धा मतिस्त्रिधाऽन्यथा भवति ।। ] ननु स्थाणुत्वव्याप्यवक्रकोटरादिमानयमित्यन्वयधर्मज्ञानात् स्थाणुरेवायमित्यपायोस्तु पुरुषत्वव्याप्यकरचरणाद्यभाववानयमितिव्यतिरेकधर्मज्ञानात्तु कथं सः, नहि तदभावोऽन्वयेन व्यतिरेकेण वा स्थाणुत्वव्याप्यो घटादौ व्यभिचारात्, न च पुरुषत्वव्यापककराद्यभाववत्तानिश्चयादेव पुरुषत्वाभावज्ञानाभावप्रतिपत्तिः, व्यापकाभावज्ञाने व्याप्याभावज्ञानावश्यंभावनियमादिति वाच्यम् । एवं सत्ययं न पुरुष इत्यपायेऽपि अयं स्थाणुरेवेत्यपायाऽभावात्, न चोक्ताभावविशिष्टसाधारणधर्मवत्ताज्ञानमेव तदपायजनकमिति वाच्यम्, संशयहेतोः साधारणधर्मवत्ताज्ञानस्य तदानीमननुसरणादितिचेत्, न, एक कोटिनियतधर्माभावज्ञानस्याप्यपरकोटिनिश्चायकत्वाद्, अथवोक्ताभावज्ञानानन्तरं पुरुषत्वाभावज्ञानात्तद्विशिष्टसाधारण धर्मवत्ताज्ञानादेवायं स्थाणुरेवेति निश्वयस्तत्र तावदालोचनरूपाया ईहाया अनुभवसिद्धत्वादिति दिग् । ननु व्यतिरेकधर्म गवेषणमीहेत्यस्य व्याप्यधर्मवत्ताज्ञानमपायोऽसावित्यर्थः तच्चान्वयेन व्यतिरेकेणान्वयव्यतिरेकेण वास्तु, तज्जन्ययथाभूतार्थज्ञानं तु धारणा इत्युक्तौ को दोषो येन स्वमतव्यावर्णनमेव भ्राजमानं भवेत्, उच्यते, व्याप्य मतिनिरूपणेऽपायधारणाविप्रतिपत्तिनि रासः ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy