SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ SARANA सविवरणं श्रीज्ञाना मतिनिरूपणे ईहाया अपायाभेद: अपायधारणाविप्रतिपत्तिनिरासश्च॥ प्रकरणम्।। ॥२९॥ निलयादित्याकारः, उपपत्तिव्यापारश्च सम्भवपयोलोचनं यथा सूर्यास्तसमये महति तमिस्र स्थाणुरयं सम्भाव्यते नत पुरुषः, तस्यासम्भवादिति, न चाशुनश्वरज्ञाने कथमेतावत्पर्यालोचनमिति वाच्यं, ईहाया बहुसामायिकत्वाद्, अत एव बहुकालममुमर्थमनुभवामीति प्रतीतिः सगच्छते, एवञ्च हेतूपपत्योः परमार्थत एकरूपत्वात्तत्संशयविरोधितव्याप्यधर्मवत्ताज्ञानमेव तदीहेत्यायाति, तत्संशयविरोधिता च तदभावानवगाहित्वेन विवक्षितेति न व्याप्यव्याप्यवत्तापरामर्शप्रसूतव्याप्यवत्तानुमितेरपायरूपाया ईहात्वापत्तिः, तत्संशयनिवर्तकापायानुकूलपरामर्शत्वं चेहालक्षणं, तेन न तर्काद्यतिव्याप्तिः,स्यादेतत्,तदभावाप्रकारकत्वे सति तत्प्रकारक ज्ञानं निश्चयः, स एव चापायः, ईहापि संशयभिन्नत्वाचादृश्येवेतीहापाययोः को भेद ? इतिचेत्,न,इदमित्थमेवेत्यनुभवसाक्षिकविषयताविशेषवतोऽपायादतादृश्या ईहाया भिन्नत्वात् । तादृशविषयताभावः संशयत्वेन व्याप्त इतिचेत्,न,अवग्रहेण व्यभिचारात. स्पष्टज्ञानत्वविशिष्टः स तथेतिचेत्,न, तादृशव्याप्तौ मानाभावाद्,अपि चामुमर्थ विचारयामि, अमुमर्थं च निश्चिनोमीति प्रतीतिभ्यामीहात्वापायत्वयोः स्फुटमेव स्वतन्त्रतया भानमिति दिग् ॥ ६॥ अपायधारणागतविप्रतिपत्तिनिरासाय परमतमुपदर्शयति केचिदन्यविशेषस्या-ऽभावव्यवसितिं जगुः ॥ अपायमिदमेवेति, निश्चयं धारणां पुनः॥७॥६५॥ 'ववसायंमि अवाओ' इत्यत्र विशेषेण एककोटिव्याप्यधर्माभावप्रकारेणावसायो ज्ञानमिति यथाश्रुतार्थभ्रान्ताः पुरुषत्वव्याप्यशिकण्डयनादिधर्माभाववानयमित्यादिज्ञानमपायं, 'धरणं पुण धारणं विति' ति यथाश्रुतार्थभ्रान्ताश्च तदुत्तरोत्पन्नं स्थाणुरेवाडयमित्यादिज्ञानं धारणां केचिदाहुः॥आह च-"केइ तयन्नविसेसा-वणयणमित्तं अपायमिच्छति ॥ सम्भृयत्थविसेसा-वधारणं धारणं विति॥१८५॥" [केचित्तदन्यविशेषापनयनमात्रमपायमिच्छन्ति । सद्भूतार्थविशेषावधारणं धारणां ब्रुवते ॥] ॥७॥ तद्दषयति ASSACCHOREO RSSCROLX ।२९॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy