SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सविवरणं श्रीज्ञानार्णव प्रकरणम् ॥ ॥ २८ ॥ न्नाव्याप्तिः। आह च नियुक्तिकारः ॥“अत्थाणं उग्गहणं, अवग्गहं तह विआलणं ईहं ।। ववसायं च अवायं, धरणं पुण धारणं चिंति ॥ १७९॥।" [अर्थानामग्रहणमवग्रहं तथा विचारणमीहां । । व्यवसायं चापायं धरणं पुनर्धारणां ब्रुवते ] “अत्थाणं उग्गहणम्मि उग्गहो” इतिपाठे विभक्तिव्यत्ययो द्रष्टव्यः । भाष्यकारोऽप्यभ्यधात् -" सामण्णत्थावग्गहण - मोग्गहो भेअमग्गण महेहा ॥ तस्सावगमोsवाओ, अविच्चुई धारणा तस्स ॥ १८० ॥" [ सामान्यार्थावग्रहणमवग्रहो भेदमार्गणमथेहा ॥ तस्यावगमो ऽपायोऽविच्युतिर्धारणा तस्य ] एतेषां लक्षणानां निष्कर्षमग्ने वक्ष्यामः ॥ ४ ॥ अत्र चावग्रहादारभ्य परैः सह बह्रयो विप्रतिपत्तयः सन्तीत्यवग्रहविषयान्तां तावन्निरोकरोतिअवग्रहेऽपि सामान्य-विशेषं विषयं परे ।। प्राहुस्तेषा मपायस्य, प्रवृत्तिरतिदुर्घटा ॥ ५ ॥ ६३ ॥ सामान्यमात्रावगाहिज्ञानत्वं नावग्रहत्वं शब्दादिसामान्यविशेषग्रहस्यापि तथात्वात्, किन्तु इदं तदिति वेत्याकारकविमर्शपूर्व भाविज्ञानत्वमेव, प्रवर्तते च शब्दोऽयमिति ज्ञानोत्तरं किमयं शांखः शाङ्गों वेत्यादिविमर्श इति, सोऽप्यवग्रह इति केचिदाहुः, तन्न, तादृशविमर्शानुपरमेनापायस्य कदाप्यप्रवृत्तिप्रसङ्गाद्, ईहाया अपीहान्तरपूर्व भावित्वेनाऽवग्रहत्वप्रसङ्गात्, सामान्यविशेषभानस्यापि सामान्यमात्रभानं विनाऽसम्भवाद्विशेषधर्मभानेऽर्थावग्रहस्य हेतुत्वादित्यादि बहुतरं वक्ष्यते, आह च - " सामन्नविसेसस्स वि, केइ उग्गहणमुग्गहं बिंति ॥ जं मइरिदं तयं ति च तन्नो बहुदोसभावाओ || १८१ ॥ " [सामान्यविशेषस्यापि केचिदवग्रहणमवग्रहं ब्रुवते ।। यन्मतिरिदं तदिति च तन्नो बहुदोषभावात् ] ॥ ५ ॥ ईहाविषयिणीं विप्रतिपत्तिं निरस्यति ईहां संशयमेवाहुः, परे तत्प्रकृतासहम् ॥ हेतूपपत्तिव्यापारा, न नेहा संशयात्मिका ॥ ६ ॥ ॥ ६४ ॥ मतिभेदप्रमेदनिरूपणेs वग्रहादि लक्षणे निर्यु चिभाव्यसं वाद: अवग्रहेहाविषवविप्रतिपत्तिनिरासः ॥ ॥ २८ ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy