SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ मतिभेदप्रभे दनिरूपणं तत्र अवग्र हादीनां लक्षणम् ॥ FIN नवरं पारिणामिका य, धारणा एव होत ज्ञानस्य भेदवस्तूनि समाचार्यो भेद' इति, एव भवस्तूनि, तेन भेदस्य FOLKATHAHARIBAGAR श्रतनिश्रितमन्यच्च, तद्विधाऽवग्रहादिभिः॥ औत्पत्तिक्यादिकैर्भेदै-कैकं स्याचतुर्विधम् ॥२॥६॥ तन्मतिज्ञानं द्विविधं श्रुतनिश्रितमश्रुतनिश्रितं च, तत्स्वरूपं च प्रागुक्तं, तदपि प्रत्येकं चतुर्विधं, श्रुतनिश्रितमवग्रहहापायधारणालक्षणं,अश्रुतनिश्रितश्चौत्पत्तिकी-वैनयिकी-कार्मिकी-परिणामिकीलक्षणं चेति, यद्यप्यश्रुतनिश्रितेऽप्यवग्रहादिकमस्ति तथापि'असाधारणेन व्यपदेश' इति न्यायादित्थं विभागः प्रदर्शितः॥२॥ आदिपदेन संक्षिप्योपदर्शितं प्रभेदं प्रपञ्चयति भिदाश्च ताश्चतस्रोऽव-ग्रहहापायधारणाः॥ औत्पत्तिकी वैनयिकी, कार्मिकी पारिणामिकी ॥३॥६॥ स्पष्टः॥ नवरं पारिणामिकीत्यस्यान्ते चेतीतिशेषः, अत्रच श्रुतनिश्रिताधिकारादवग्रहादिभेदानामेवाधिकारः॥ आह च निर्यक्तिकार:-"उग्गह-ईह-वाओ य, धारणा एव होंति चत्तारि ।। आभिणिबोहिअनाणस्स, भेअवत्थू समासेणं।।१७८॥" [अवग्रह ईहाऽपायश्च धारणेव भवन्ति चत्वारि ॥ आभिनिबोधिकज्ञानस्य भेदवस्तूनि समासेन], अत्र चकारोऽवग्रहेहादेः पर्यायत्वनिरासेन स्वातन्त्र्यप्रदर्शनार्थः, तत्प्रदर्शकत्वं चास्य भेदार्थत्वादवसेयं, अनुशास्यते च 'चार्थों भेद ' इति, एवकारश्च अवगृहीतमेवेद्यते ईहितमेव निश्चीयते, निश्चितमेवावधार्यत इति क्रमद्योतनार्थः ॥ भेदा एव वस्तूनि विविक्तवस्तुस्वरूपाणि भेदवस्तूनि, तेन भेदस्य | पदार्थान्तरत्वनिरासः, समासेनेति विस्तरेणाधिकानामपि सम्भवादितिभावः ॥३॥ अवग्रहादीनां लक्षणमाह- अपग्रहोऽवग्रहः स्या-दीहा भेदगवेषणम् ।। इदमेवेत्यपायो धी-र्धारणा तदविच्युतिः ॥४॥६२॥ अपकृष्टः सामान्यमात्रावभासी ग्रहोऽवग्रहो निष्प्रकारकं ज्ञानमित्यर्थः, भेदगवेषणं तद्व्याप्यान्वयव्यतिरेकधर्मसम्भवग्रहणमीहा, इदमित्थमेवेत्यवधारणमपायो,निश्चिताऽर्थाविच्युतिर्धारणा,अविच्युतिस्मृतिवासनारूपाणां तिसृणामपि धारणानां विच्युतिविरोधित्वा RAKAR
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy