________________
सविवरणं
श्रीज्ञानापर्णव
प्रकरणम् ॥
॥ २७ ॥
ग्रन्थान्तरं रत्नजिघृक्षयाऽन्ये, जडास्तडागं परिशीलयन्ति । रत्नाकरं जैनवचोरहस्यं वयं तु भाष्यं परिशीलयामः ॥ २ ॥
नमोऽस्तु भाष्यकाराय, भगवन्मतभानवे ॥ पराहतेषु तकेंषु, भाष्यजीवातुदायिने ॥ ३ ॥ ॥ इति श्रीज्ञानार्णवे न्यायविशारदविरचिते मतिश्रुतभेदचिन्ताधिकारः प्रथमस्तरङ्गः सम्पूर्णः ॥
अथ द्वितीयस्तरङ्गः ॥ अथावसरसङ्गत्या मतिज्ञाननिरूपणं प्रतिजानीते ।
भेदपर्यायसुव्यक्त-मथ तत्त्वनिरूपणात् ॥ निरूप्यते मतिज्ञान-मुद्देशक्रमसङ्गतम् ॥ १ ॥ ५९ ॥ अथ ' यथोद्देशं निर्देश ' इति न्यायात् पूर्वं मतिज्ञानमुद्दिष्टमिति तदेव पूर्व निर्दिश्यते, एवं चोद्देष्टुरिच्छ्योद्देशक्रमः, उद्देशक्रमाच्च निर्देशक्रम इति लभ्यते उद्देश इव निर्देशऽपीच्छेव नियांमिकाऽसाम्प्रदायिकत्वेन बलवदनिष्टानुबन्धित्वज्ञानाच्च नोद्देशक्रमविपरीतक्रमेण निर्देशेच्छेति तु युक्तं, अत्राऽथेत्यनेन प्रतिबन्धकजिज्ञासापगमलक्षणाऽवसरसङ्गतिद्यत्यते, तथा चासङ्गताभिधानशंका निवर्तिता भवति, प्रतिज्ञया च शिष्यावधानं कृतं भवति । तथाह च भाष्यकारोऽपि - "मइसुअनाणविसेसो, भणिओ तल्ल वखणाइभरणं ॥ पुव्वि आभिणिबोहिय-मुद्दिहं तं परूविस्सं । १७६ ॥ [मतिश्रुतज्ञानविशेषो भणितस्तल्लक्षणादिभेदेन || पूर्वमाभिनिबोधिकमुद्दिष्टं तत्प्ररूपयिष्ये ] ॥ १॥ तत्र निरूपणं तावत्तत्त्व भेदपर्यायैः कर्तव्यं तत्र तस्य भात्रस्तत्त्वमिति निरुक्त्या तत्त्व सामान्यलक्षणं तच्च पूर्वं कृतमेवेति भेदनिरूपणमवसरप्राप्तं चिकीर्षुराह -
प्रथमतरङ्गसमाप्तिः
द्वितीयतर
ङ्गारम्भ:, तत्र मतिज्ञानतत्त्व
निरूपण
प्रतिज्ञा ॥
॥ २७ ॥